SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ११४८ वृद्धहारीतस्मृतिः। [ षष्ठोप्रायश्चित्तन्तु तस्यैव कर्तव्य नेतरस्य तु । जातानुतापस्य भवेत्प्रायश्चित्तं यथोदितम् ।।२१५ नानुतापस्य पुंसस्तु प्रायश्चित्तं न विद्यते। नाश्वमेधफलेनापि नानुतापी विशुद्धयते ॥२१६ तस्माज्जातानुतापस्य प्रायश्चित्त विशुद्धथते । चरेदकामतः कृत्वा पतनीय महत् पुमान् ।।२१७ न कामतश्चरेद्धम भृावग्निपतनं विनः । यः कामतो महापापं नरः कुर्यात्कथञ्चन ।।२१८ . न तस्य शुद्धिनिर्दिष्टा भृावग्निपतः विना । इत्युक्त ब्रह्मणा पूर्व मनुना च महर्षिभिः ॥२१६ पातकेषु च सर्वत्र कामतो द्विगुणं व्रतम्। कामतः पतनीयेषु मरणाच्छुद्धिमृच्छति ।।२२० हयमेधाय नः(न) शुद्धिः सर्वभौमस्य भूपतेः । कामतस्त्वनुपारेषु लोके न व्यवहार्यता ॥२२१ महत्सु चातिपापेषु प्रदीप्तज्वलनं विशेत् । प्रायश्चित्तैरपैत्येनो यदकामकृतं भवेत् ॥२२२ कामतो व्यवहारस्तु वचनादिह जायते । इति योगेश्वरेणोक्त मुपपापेषु तत्र तत् ।।२२३ तस्मादकामतः पाप प्रायश्चित्तेन शुध्यति । तेषां क्रमेण वक्ष्यामि प्रायश्चित्तं विशुद्धये ॥२२४ शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि पुण्यतीर्थे समाविशेत् ।।२२५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy