SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११०६ त्वं सोम इति सूक्तेन प्रत्य च कुसुमैर्यजेत् । पश्चाद्धोमं प्रकुर्वीत पायसान्न सशर्करम् ॥३६८ मन्त्रोणाष्टोत्तरशतं सूक्तेन प्रत्यूचं तथा । अग्निसोमानुवाकेन समिद्भिः पिप्पलैर्यजेत् ॥३६६ सहस्रनामभिः स्तुत्वा नमस्कृत्वा जनार्दनम् । वैष्णवान् भोजयेत्पश्चात्पायसान्नेन शक्तितः ॥३७० स्वयं भुक्त्वा हविः शेषं शयीत नियतेन्द्रियः । एवं संपूज्य देवेशं पौर्णमास्यां जनार्दनम् ॥३७१ सर्वपापविनिर्मुक्तो विष्णु सायुज्यमाप्नुयात् । मघायामपि पूर्वाह्ने स्नात्वा कृष्णं जलैर्द्विजः ॥३७२ सन्तप्यं मूलमन्त्रोण तिलमिश्रितवारिभिः। तर्पयित्वा पितृन्देवानर्चयेदच्युतं ततः ॥३७३ कृष्णैश्च तुलसीपत्रौः केतकैः कमलैरपि । शोणितैः करवीरैश्च जपाकुटजपाटलैः ॥३७४ अस्य वामेति सूक्तेन दद्यात् पुष्पाञ्जलिं हरेः । मन्त्रोणाष्टोत्तरशतं कृष्णं श्रीतुलसीदलैः ॥३७५ तथैव जुहुयादग्नौ तिलैः कृष्णैः सकर्शरैः । आज्येन पौरुषं सूक्त प्रत्यूचं जुहुयात् ततः ॥३७६ नारायणानुवाकेन उपस्थाय जनार्दनम् । सुसंयावैः सौहृदैश्च शाल्यन्न विनिवेदयेत् ।।३७७ वैष्णवान् भोजयेत्पश्चात्स्वयं भुञ्जीत वाग्यतः । तस्यां रात्री जपेन्मन्त्रमयुतं हरिसन्निधौ ॥३७८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy