________________
११०२
वृद्धहारितस्मृतिः। [पञ्चमोध्यात्वा यज्ञमयं विष्णुं मन्त्रोणाष्टोत्तरं शतम् । तिलबीह्याज्यचरुभिस्तौकेनापि वा यजेत् ।।२६१ वैश्वदेवं भूतबलिं हुत्वा दत्त्वा च आचमेत् । शय्यायां विन्यसेदेवं पर्याङ्क समलकृते ।।२९२ सविताने गन्धपुष्पधूपैरामोदिते शुभे। शाययित्वा च देवेशं देवीभ्यां सहितं हरिम् ।।२६३ हिरण्यगर्भसूक्तेन नासदासीदनेन च।। कृत्वा पुष्पाञ्जलिं पश्चादुपचारैः समर्चयेत् ॥२६४ श्रिये जात इत्युचैव ध्रु वसूक्तेन च द्विजः । दीपैर्नीराजनं कृत्वा पश्चादयं निवेदयेत् ।।२६५ सुवाससा य(ज)वनिका विन्यस्याथ समाहितः । द्वादशाणं महामन्त्र जपेदष्टोत्तरं शतम् ॥२६६ अस्त्रैश्च शङ्खचक्रायैदिक्षु रक्षा सुविन्यसेत् । स्तोत्रैः स्तुत्वा नमस्कृत्वा पुनः पुनरनन्तरम् ।।२६७ वैष्णवैश्व सुहृद्भिश्च भुञ्जीयादर्पितं हरेः। . आचम्याग्निमुपस्पृश्य समासीनस्तु वाग्यतः ।।२६८ ध्यायन हृदि शुभं मन्त्र जपेदष्टोत्तरं शतम् । शेषाहिशायिनं देवं मनसैवार्चयेत्ततः ॥२६६ शयीत शुभशय्यायां विमले शुभमण्डले। ऋतौ गच्छेद्धर्मपत्नी विना पञ्चसु पर्वसु ॥३०० पुत्रार्थी चेत्त युग्मासु स्त्रीकामी विषमासु च । न श्राद्ध दिवसे चैव नोपवासदिने तथा ॥३०१