________________
१०६०
वृद्धहारीतस्मृतिः। पञ्चमोचन्दनाक्षतदूर्वाश्च तिलान् धात्रीश्च सर्षपम् । अभिमन्व्य कुशैः पश्चान्मन्त्ररत्नेन वैष्णवः ॥१६१ शतवारं सहस्र वा मन्त्रेणैवाभिषेचयेत् । सर्वश्च वैष्णवैः सूक्तैर्गायच्या वैष्णवेन च ॥१६२ नामभिः केशवाद्यैश्च सर्वैमन्त्रौश्च वैष्णवैः । स्नाप्य वस्ौभूषणैश्च शुभे धान्ये निवेशयेत् ॥१६३ स्थण्डिलेऽग्निं प्रतिष्ठाप्य इध्माधानादि पूर्ववत् । होमं कुय्योद् गवाज्येन पायसान्जेन वैष्णवः ॥१६४ कर्तुरोपासनानौ तु होममत्र (तन्त्र) विशिष्यते । प्रत्यूचं वैष्णवैः सूक्तर्जुहुयाद् घृतपायसम् ।।१६५ अस्य वामेति सुक्तेन गवाज्यं जुहुयात्ततः । मन्त्ररत्नेन जुहुयादष्टोत्तरसहस्रकम् ।।११६६ तद्विम्बमूर्तिमलोण तिलहोमं तथैव च । अविज्ञातस्तु तन्मत्रं मूलमोण वा यजेत् ॥१६७ यजेच्छी ध्रप्रकाशैश्च गायच्या विष्णुसंशया । वैकुण्ठपार्षदं होमं कृत्वा होमं समापयेत् ॥१६८ नयनोन्मीलनं कृत्वा सौवर्णेन कुशेन वा । निवेश्याऽऽवाहयेत्पीठे मन्त्ररत्नेन वैष्णवः ॥१६६ मन्त्रोणैवार्चनं कृत्वा पश्चात् पुष्पाञ्जलिं यजेत् । तस्मिन्निब्बे तु तन्मूर्ति ध्यात्वा नियतमानसः ॥१७० अष्टोत्तरसहस्रन्तु दद्यात् पुष्पाञ्जलिं ततः । सबैश्च वैष्णवैः सूक्तर्दधात् पुष्पाणि वैष्णवः ।। १७१