SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ १०७० वृद्धहारीतस्मृतिः। [चतुर्थोहिंस्रयन्त्रप्रयोक्तारं दाहयेद् वै कटाग्निना। अदण्डयित्वा दुवृत्तान् तत्पापं पृथिवीपतिः ॥२१२ सम्प्राप्य निरयं गच्छेत्तस्मात्तान् दण्डयेत्तथा । यः स्ववर्णाश्रमं हित्वा स्वच्छन्देन तु वर्तयेत् ॥२१३ तं दण्डयेद्वर्षशतं नाशयेत्तद्विदेशतः । सर्वेष्वेतेषु पापेषु धनदण्ड प्रयोजयेत् ॥२१४ ।। पितेव पालयेभृत्यान् प्रजाश्च पृथिवीपतिः । प्रजासंरक्षणार्थाय संग्रामं कारयेन्नृपः ॥२१५ तस्मिन् मृत्युभवेच्छ् यो राज्ञः संग्राममूर्द्धनि । मृतेन लभ्यते स्वगं जितेन पृथिवी त्वियम् ।।२१६ यशः कीर्ति विवृध्यर्थं धर्मसंग्राममाचरेत् । मुक्तशीर्ष मुक्तवस्त्रं त्यक्तहेतिं पलायितम् ।।२१७ न हन्याद्वन्दिनं राजा युद्ध प्रेक्षणकृजनान् । भग्ने स्वसैन्यपुजे च संग्रामे विनिवर्तिनः ॥२१८ पदे पदे समग्रस्य यज्ञस्य फलमश्नुते।। नातः परतरो धर्मो नृपाणां नरशालिनाम् ॥२१६ युद्धलब्धा महीशस्य दीयते नृपसप्तमैः । जित्वा शत्रून्महीं लब्ध्वा लब्धां यत्नेन पालयेत् ।।२२० पालितां वर्धयेन्नित्यं वृद्धां पागे विनिक्षिपेत् । पात्रमित्युच्यते विप्रस्तपोविद्यासमन्वितः ।।२२१ न विद्यया केवलया तपसा वाऽपि पात्रता । श्रुतमध्ययनं शीलं तप इत्युच्यते बुधैः ॥२२२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy