________________
१०३८
वृद्धहारीतस्मृतिः। [तृतीयोअन्यं देवं नमस्कृत्वा सर्वसिद्धिमवाप्नुयात् । विना वै वैष्णवं मन्त्रमन्यमन्त्रान्विसर्जयेत् ॥२७२ तमेव पूजयेद्रामं तन्मन्त्रं वै जपेत् सदा।। अन्यथा नाशमाप्नोति इह लोके परत्र च ।।२७३ अद्वितीयं यदा मन्त्रं तारकब्रह्मनामकम् । जपित्वा सिद्धिमाप्नोति अन्यथा नाशमाप्नुयात् ।।२७४ सावित्री मन्त्ररत्नञ्च तथा मन्त्रद्वयं शुभम् । सर्वम त्रं जपेत् पूर्व संसिध्यर्थं जपेत् सदा ।।२७५ अजप्यैतान्महामन्त्रान्न तु संसिद्धिमाप्नुयात् । तस्माच्छक्त्या जपित्वैतान् पश्चान्मन्त्रं प्रयोजयेत् ।।२७६ विद्यास्त्रीवित्तराज्यादिरूपारोग्यजयार्थिनः । पुष्पाज्यविल्वरक्ताब्ज जातिदूर्वाङ्खरैस्तथा ।।२७७ आरक्तकरवीरैश्च हुत्वा सिद्धिमवाप्नुयुः । सर्वसिद्धिमवाप्नोति तिलहोमेन वैष्णवः ॥२७८ अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । सायं प्रातश्च जुहुयात् षण्मासं विजितेन्द्रियः ।।२७६ यावज्जोवं जपेद्यस्तु भक्त्या राममनुस्मरन् । सदारपुत्रः सगण प्रेय स्वर्गे महीयते ।।२८० षट्कारयुक्तं स्वाहान्तं रामास्त्रं सम्प्रकीर्तितम् । सर्वापरसु जपेन्मन्त्रं रामं ध्यात्वा महावलम् ।।२८१ चोरामिशत्रुसम्बाधे तथा रागभयेषु च । वोयवातमहादिभ्यो भयेषु च सभक्तिकम् ।।२८२