________________
जमावः] भगवन्मन्त्रविधानवर्णनम्। १०३७
पद्माक्षी पन्नवदनां नीलकुन्तलशीर्षजाम् । आरूढयौवनां नित्यां पीनोन्नतपयोधराम् ।।२६१ दुकूलवस्त्रसम्बीतां भूषणैरुपशोभिताम् । भज तां कामदा पद्महस्तां सीतां विचिन्तयेत् ॥२६२ लक्ष्मणं पश्चिमे भागे धृतच्छत्रं महाबलम्। पार्वे भरतशत्रुघ्नौ बालव्यजनपाणिनौ ॥२६३ अग्रतस्तु हनूमन्तं बद्धाञ्जलिपुटं तथा। सुग्रीवं जाम्बवन्तश्च सुषेणञ्च विभीषणम् ॥२६४ नीलं नलञ्चाङ्गदश्च ऋषभं दिक्षु पूजयेत् । वशिष्ठो वामदेवश्च जाबालिरथ कश्यपः ॥२६५ मार्कण्डेयश्च मौदल्य स्तथा पर्वतनारदौ । द्वितीयावरणं प्रोक्तं रामस्य परमात्मनः ।।२६६ धृष्टिजयतो विजयः सुराष्ट्रो राष्ट्रवर्धनः । अलको धर्मपालश्च सुमन्तुश्चाष्टमन्त्रिणः ॥२६७ - तृतीयावरणं तस्य तत्र चन्द्रादिदेवताः । कुमुदाद्याश्च चण्डाद्या विमाने चान्तरीयकाः ॥२६८ एवं ध्यात्वा जगन्नाथं पूजयेन्मनसाऽपि वा। षट्सहस्र जपेन्मन्त्रं जुहुयाश्च सहस्रकम् ॥२६६ . जुहुयाचरुगा वापि शतं पुष्पाञ्जलिं न्यसेत् । एवं संपूज्य देवेशं यावजीवमतन्द्रितः ।।२७० तदेहपतने तस्य सारूप्यं परमे पदे । विद्या स्त्री राज्यवित्ताद्य य य कामयते हृदि ॥२७१