SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ७६६ ऽध्यायः] . श्राद्धवर्णनम् । पर्वस्वपि निमित्तेषु कर्तव्यं पिण्डसंयुतम् । पितृणां त्रिविधा यस्माद्गतिः प्रोक्ता मुनीश्वरैः ।।८१ वैश्वदेवः सदा कार्यों श्राद्ध च समुपस्थिते । पाकशुद्धधर्थ मेवैतत्पूर्वमेव विधीयते ॥८२ वैश्वदेवोग्रतश्चैव श्राद्धकाले विशेषतः। पाकशुद्धिस्तु विशेया भुक्तोच्छिष्टं तु वर्जयेत् ।।८३ सम्प्राप्ते पार्वणश्राद्ध एकोद्दिष्टे तथैव च । अग्रतो वैश्वदेवः स्यात् पश्चादेकादशेऽहनि ।।८४ एकोद्दिष्टे विशेषेण प्रागेव ह्यग्निपूजनम् । कालस्तु कुतपस्तस्य रौहणः पार्वणस्य च ॥८५ वामतश्वासनं दद्यापितृकार्येषु सत्तमः । दैविकं दक्षिणं तद्वदिति पाराशरोऽब्रवीत् ।।८६ आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा। पितृकार्येषु वामं तु दैवे कर्मणि दक्षिणम् ८७ पितृश्राद्धषु यो दद्याहक्षिणं दर्भमासनम् । नाश्नन्ति पितरस्तस्य सार्धानि वत्सराणि षट् ।।८८ तस्माद्वामत एवात्र पितृकर्मणि चासनम् । दैविके दक्षिणं तद्वदिति वासिष्ठजोऽब्रवीत् ।।८६ कुत्र काले च कर्तव्यं श्राद्धं तत्पैतृकं प्रभो !। वदस्व निश्चयं तत्र विवदन्त्यपरेऽत्र तु ॥६० पञ्चदशमुहूर्ताहस्तत्प्रागर्धदिनं स्मृतम् । अपराधं स्मृता रात्रिस्तन्मध्यः कुतपो मतः॥६१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy