SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [षष्ठमोयोऽनं वावुषिकस्याद्यादजापालादिकस्य च । अन्यस्यापि निषिद्धस्य सोऽनन्तं नरकं व्रजेत् ॥२८७ पाणिगृहीतभार्यायां सत्यां यस्तु नराधमः। शूद्रीहस्तेन भुञ्जीत पतितः स सदैव तु ॥२८८ त्यक्ता येनोढभार्या तु त्यक्तः स पितृ दैवतैः। त्यक्तो देवैः स पापीयांच्छूद्रादप्यधमः स्मृतः ॥२८६ यः शूद्रीं भजते नित्यं शूद्री तु गृहमेधिनी। वर्जितः पितृदेवस्तु रौरवं यात्यसौ द्विजः ॥२६० यः शूद्रयां च स्वयं जातो ह्यन्यस्यां सोऽपि वै पुनः। अन्यस्यां च पुनः सोऽपि किमस्य प्रेत्य चिन्तनम् ।।२६१ सर्वान् भुञ्जीत नरकान्धिशतिं त्वेकवर्जितान् । रोरवादीन्क्रमेणैव पापिष्ठी यावदम्बरम् ।।२६२ हेमन्तशिशिरत्वोश्च प्रोष्ठपद्याः परस्य च । पञ्चस्वपरपक्षेषु कार्याः साग्निभिरष्टकाः ।।२६३ हेमन्ते शिशिरे चैका एकैकाथ तथा परा। प्रोष्ठपद्यां द्विजास्तिस्रो ह्यष्टका इति केचन ॥२६४ दर्शश्च पौर्णमासश्च तथैवाऽऽअयणद्वयम् । चातुर्मास्यव्रतान्येव कार्याणि साग्निकैर्द्विजैः ।।२६५ अनूचानकृतं कुर्युः सदैव व्रतचारिणः । अनूचानकुले जाताः सदेव ब्रतचारिणः । अग्निहोत्ररता नित्यं माता पित्रादिपूजकाः ॥२६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy