SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ज्यायः] गायत्रीमन्त्रपुरश्चरणवर्णनम् प्राणानामयुताभ्यां च तथा पंडिशमिः शतैः। पुंसी गच्छत्यहोरात्रं सत्संख्यामजपा विदुः ।।५३ रविमण्डलमध्यस्थे पुरुष लोकसाक्षिणि । समर्पितं मया चेदं सूर्याख्ये ब्रह्मणः पदे ॥५४ न जप्यं प्रसभं कुर्यात् प्रसभं नन्ति राक्षसाः । ब्राह्मणा भागधेयास्तु तेषां देवो विधिक्रमः ॥५५ उपांशु तु जपं कुर्यात् ब्राह्मणो वाथ मामसम् । विवृतोष्टमुपांशुः स्यादचलोष्ठं तु मानसम् ॥५६ द्विविधस्तु जपः प्रोक्त उपांशुर्मानसस्तथा । उपांशुः म्याच्छतगुणः साहस्रो मानसः स्मृतः ॥५७ उपांशुजपयुक्तस्तु मानसे च रतस्तथा । इहैव याति वैधस्त्वमिति पाराशरोऽब्रवीत् ।।५८ विधियज्ञाः पाकयज्ञा ये चान्ये बहवी मखाः। सर्वे ते जपयज्ञस्य कला नाहन्ति पीडशीम् ।।५१ अप्येनकन सिद्धन किं न सिद्धं भवेदिह । कुर्यादन्यन्न वा कुर्यान्मैत्री ब्राह्मण उच्यते ॥६० शतेन जन्मजनितं सहस्रणं पुराकृतम् । अयुतेन त्रिजन्मोत्यं गायत्री हन्ति पातकम् ॥६१ दशभिर्जन्मजनितं शतेन. तु पुराकृतम् । सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति पातकम् ॥६२ अस्मिन् कलौ च विदुषा विधिक्त् कर्म यत् कृत्तम् । भवेद्दशगुणं तद्धि कृतादेयुंगतो ध्रुवम् ॥६३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy