________________
वृहत्पराशस्स्मृतिः। [चतुर्थीमैत्रावरुगमन्यद्वै तथा पूष्णस्त्रयोदशम् । चतुर्दशं सुरेशस्य प्रागिदं प्राणः स्मृतम् ।।२१ मरुदैवतकं ज्ञेयं पञ्चदशं यदक्षरम् । सौम्यं च षोडशं तत्त्वं तथा चाङ्गिरसं परम् ।।२२ विश्वेषां चैब देवानामष्टादशमथाक्षरम् । अश्विनोश्चोनविंशं तु विशं प्रजापतेर्विदुः ॥२३ एकविंशं कुबेरस्य द्वाविंशं शंकरस्य च। त्रयोविशं तथा ब्राह्मं चातुविशं तु वैष्णवम् ।।२४ इति ज्ञात्वा द्विजः सम्यग्सर्वाश्चाक्षरदेवताः । कुर्वन् जपादिकं विप्रः परं श्रेयोऽधिगच्छति ॥२५ पादाङ्गुष्ठादिमूर्द्धान्तमात्मनो वपुषि न्यसेत् । अक्षराणि च सर्वाणि वान्छन् ब्रह्मत्वमात्मनः ।।२६ पादाङ्गुष्ठयुगे त्वेकमेकैकं गुल्फयोर्द्वयोः । जानुनोश्च द्वयोरेकमेकमूरुकयोद्वयोः ।।२७ गुह्ये कट्यां तथैकैकमेकैकं जठरोरसोः । स्तनद्वये तथैकं तु न्यसेदेकं गले तथा ॥२८ वक्त्रे तालुनि दृक्-श्रुत्योश्चतुर्वेककमेव च । भ्रुवोर्मध्ये तथैकं तु ललाटे चैकमेव हि ॥२६ याम्य-पश्चिम-सौम्येषु एकैकमेकमूर्धनि । गायत्रीन्यस्तसर्वाङ्गो गायत्रो विप्र उच्यते ॥३० लिप्यते न स पापेन पद्मपत्रमिवाम्भसा । प्रोक्तः प्रणवविन्यासो व्याहृतीनामथोच्यते ॥३१