SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [प्रथमोधर्म तु त्रियुगाचारं स शक्यं हि कलौ युगे। वर्णानामाश्रमाणाञ्च किञ्चित्साधारणं वद ॥१८ व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः। सुखासीनो महातेजा इदं वचनमब्रवीत् ॥१६ क्रियन्ते नैव वेदाश्च नैवाति प्रभवन्ति ते। न कश्चिद्वेदकर्ताऽस्ति वेदस्मर्ता चतुर्मुखः ।।२० तथा स धर्म स्मरति मनुः कल्पान्तरान्तरे। अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे ॥२१ अन्ये कलियुगे नृणां युगह्रासानुरूपतः । तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥२२ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे। कृते तु मानवा धर्मास्त्रेतायां गौतमस्य च ॥२३ द्वापरे शाङ्ख-लिखिताः कलौ पाराशराः स्मृताः । त्यजेद्देश कृतयुगे ओतायां प्राममुत्सृजेत् ।।२४ द्वापरे कुलमेकं तु कर्तारञ्च कलौ युगे। कृते सम्भाष्य पतति त्रेतायां स्पर्शनेन च ॥२५ द्वापरे भक्षणेऽन्नस्य कलौ पतति कर्मणा । अभिगम्य कृते दानं त्रेतामाहूय दीयते ॥२६ द्वापरे याच्यमानन्तु सेवया दीयते कलौ । अभिगम्योत्तमं दानमाहूतञ्चैव मध्यमम् ।।२७ अधर्म याच्यमानं स्यात् सेवादानश्च निष्फलम् । कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमेव च ॥२८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy