________________
ऽध्यायः] अगम्यागमनप्रायश्चित्तम् ।
सुवर्ण पुत्रिकां कृत्वा निष्कविंशतिसङ्खथया। दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥५ निधीनामधिपो देवः शङ्करस्य प्रियः सखा। सौम्याशाधिपतिः श्रीमान् मम पापं व्यपोहतु ॥६ इमं मन्त्रं समुचार्य आचार्य्याय यथाविधि । दद्यादवं होनकोषे लिङ्गनाशे विशुद्धये ॥७ गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते। तेनापि निष्कृतिः कार्या शास्त्रदृष्टेन कर्मणा ॥८ स्थापयेत् कुम्भमेकन्तु पश्चिमायां शुभे दिने । नोलवस्त्रसमाच्छन्न नीलमाल्यविभूषितम् ॥६ तस्योपरि न्यसेदेवं ताम्रपात्रे प्रचेतसम । सुवर्णनिष्कषट्केन निर्मितं यादसाम्पतिम् ॥१० यजेत् पुरुषसूक्तेन वरुणं विश्वरूपिणम् । सामविबाह्मण तत्र सामवेदं समाचरेत् ॥११ सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्खथया । दयाद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥१२ यादसामधिपो देवोविश्वेषामपि पावनः । संसाराब्धौ कर्णधारो वरुणः पावनोऽस्तु मे ॥१३ इमं मन्त्रं समुच्चार्य आचार्य्याय यथाविधि । दद्याद्देवमलङ्कृत्य मूत्रकृच्छ्रप्रशान्तये ॥१४ वसुतागमने चैव रक्तकुष्ठं प्रजायते। भगिनीगमने चैव पीतकुष्ठं प्रजायते ॥१५