________________
तमोऽध्यायः] विष्णुध्यानवर्णनम् ।
५४१ नित्यमतीन्द्रियमगुणं शब्दपर्शरसरूपगन्धातीतं सर्वज्ञमतिस्यूलं सर्वगमा.सूक्ष्मं सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतःसर्वेन्द्रियशक्तिम् । एवं ध्यायेत् । ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति । अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति तदापृथिव्यप्तेजोवाय्वाकाशमतोवुद्वयात्माव्यक्तपुरुषाणां पूर्वपूर्व ध्यात्वा तत्र तच्च लक्षन्तत् परित्यज्यापरमपरं ध्यायेत् । एवं पुरुषध्यानमारभेत । अत्राप्यसमर्थः स्वहृदयपद्मस्यावाङ्मुखस्य मध्ये दीपवन् पुरुषं ध्यायेत् । तत्राप्यसमर्थोभगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्क वनमालाविभूषितोरस्कं सौत्यरूपंचतुर्भुजं शङ्खचक्रगदापअधरं चरणमध्यगतभुवं ध्यायेत् । यद्धयायति तदाप्नोति ध्यानगुह्यम् । तस्मात् सर्वमेव क्षरं त्यक्ता अक्षरमेव ध्यायेत् । न च पुरुषं विना किश्चिदप्यक्षरमस्ति। तं प्राप्य मुक्तो भवति।। पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । तस्मात् पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ।। प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रितः । ध्यायेत पुरुषं विष्णु निर्गुणं पञ्चविंशकम् ।। तत्त्वात्मानमगम्यञ्च सर्वतत्त्वविवर्जितम् । असक्तं सर्वभृञ्चैव निर्गुणंगुणभोक्तृ च ।।