SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ तमोऽध्यायः ] श्राद्ध - वृषोत्सर्गवर्णनम् । ५२७ लोहितं वा मुखपुच्छपादशृङ्गशुक्लं यूपस्याच्छादकम् । ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य्य पौष्णं चरु पयसा श्रपयित्वा पूषा गा अन्येतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् । एकस्मिन् पार्श्वे चक्रेणापरस्मिन् पार्श्वे शूलेन । अङ्कित हिरण्यवर्णा इति चतसृभिः शन्नोदेवीति च स्नापयेत् । स्नातमलङ्कृतं स्नातालङ्कृताभिश्चतसृभिर्वत्सतरीभि:सार्द्धमानीय रुद्रान् पुरुषसूक्तं कुष्माण्डीश्च जपेत् । पिता वत्सेतिवृषभस्य दक्षिणे कर्णे पठेत् इमथ्य । वृषोहि भगवान् धर्म्मश्चतुष्पादः प्रकीर्त्तितः । वृणोमि तमहं भक्त्या स मे रक्षतु सर्व्वतः ॥ एनं युवानं पतिं वो ददाम्यनेन क्रीड़न्तीश्वरथ प्रियेण । महामहिप्रजया मातनुभिर्मारधाम द्विषते सोम ! राजन् ! ॥ वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि । होतुर्वस्त्रयुगं दद्यात् सुवर्णं कांस्यमेव च ॥ अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् । भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् || उत्सृष्टो वृषभो यस्मिन् पिवत्यथ जलाशये । जलाशयं तत्सकलं पितॄंस्तस्योपतिष्ठति ॥ शृणोल्लिखते भूमिं यत्र वचन दर्पितः । पितॄणामन्नपानं तत् प्रभूतमुपतिष्ठति ॥ * इति वैष्णवे धर्मशास्त्रे षडशीतितमोऽध्यायः ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy