SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। [एकोनसप्ततिशून्यागारे वहिगृहे देवगारे कथञ्चन । पिवेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ न तृतीयमथाश्नीयानचापथ्यं कथञ्चन । नातिप्रगे नातिसायं न सायं प्रातराशितः ।। न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते । शयानः प्रौढपादश्च कृत्वा चैवावसस्थिकाम् ॥ इति वैष्णवे धर्मशास्त्रे अष्टषष्टितमोऽध्यायः॥ ॥ अथ एकोनसप्ततितमोऽध्यायः ।। नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रिमुपेयात्। न श्राद्धं भुक्ता । न श्राद्धं दत्त्वा। नोपनिमन्त्रितः श्राद्ध। न स्नात्वा । न हुत्वा। न ब्रती। नोपोष्य भुक्ता वा। न दीक्षितः । न देवायतनश्मशानशून्यालयेषु। न वृक्षमूलेषु । न दिवा । न सन्ध्योः । न मलिनाम् । न मलिनः। नाभ्यक्ताम् । नाभ्यक्तः। न रोगार्ताम् । न रोगातः । न हीनाङ्गी नाधिकाङ्गी तथैव च वयोधिकाम् । नोपेयाद्गुर्विणी नारी दीर्घमायुर्जिजीविषुः॥ इति वैष्णवे धर्मशास्त्रे एकोनसप्ततितमोऽध्यायः॥ -:००:
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy