________________
४३४
विष्णुस्मृतिः।
॥ अथ षोडशोऽध्यायः । । समानवर्णासु पुत्राः सवर्णा भवन्ति । अनुलोमासु मातृवर्णाः। प्रतिलोमास्वार्थविगहिताः । तत्र वैश्यापुत्रः शूद्रेणायोगवः। पुकसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्यां । चाण्डालवैदेहकसुताश्च ब्राह्मणीपुत्राः शूद्रविक्षत्रियैः । सङ्करसङ्कराश्चासंख्येयाः। रङ्गावतरणमायोगवानां । व्याधता पुकसानां । स्तुतिक्रिया मागधानां । बध्यघातित्वं चाण्डालानाम् । स्त्रीरक्षा तज्जीवनश्च वैदेहकानाम् । अश्वसारथ्यं सूतानां । चाण्डालानां वहिर्गामनिवसनं मृतचैलधारणमिति विशेषः । सर्वेषाश्च समानजातिभिर्विहागः स्वपितृवित्तानुहरणञ्च ।
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।। ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाभ्युपपत्तौ च वाह्यानां सिद्धिकारणम् ।। इति वैष्णवे धर्मशास्त्रे षोडशोऽध्यायः ।।
-:**:--
॥ अथ सप्तदशोऽध्यायः ।। पिता चेत् पुत्रान् विभजेत्तस्य स्वेच्छा स्वयमुपात्तेऽर्थ । पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् ।