________________
३३८
अत्रिस्मृतिः।
॥ अथ द्वितीयोऽध्यायः ॥ प्राणायामां (स्तु) स्तथा (यः) कुर्याद्यथाविधिरतन्द्रितः । अहोरात्रिकृतात्पापात्तत्क्षणादेव शुध्यति ॥१ कर्मणा मनसा वाचा यदेनः कुरुते निशि। अतिष्ठत् पूर्वसन्ध्यायां प्राणायामस्तु शुष्यति ॥२ प्राणायामैर्य (स्वं) आत्मानं संयम्यास्ते पुनः पुनः । दशद्वादशभिर्वापि चतुर्विंशात्परं तपः॥३ कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च तृचं प्रति। कुष्माण्डं पावमानं च सुरापोऽपि विशुद्धति ॥४ सहजप्त्वास्य पानीयं (वामीय) शिवसङ्कल्पमेव च । सुवर्णमपहत्यापि क्षणाद्भवति निर्मलः ॥५ हविष्मांस्तु यमभ्यस्य न तमंह (भ) इतीव च । सूतं तु पौरुषं जप्त्वा मुच्यते गुरुतल्पगः॥६ सव्याहृतीकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥७ अपि वाप्सु निमजन्वा त्रिः पठेदघमर्षणम् । यथाश्वमेधः ऋतुराट् तादृशं मनुरब्रवीत् ।।८ आरम्भयज्ञः क्षत्रस्य हविर्यज्ञो विशामपि । परिचर्ययज्ञः शूद्ररतु जपयज्ञो द्विजोत्तमः ॥8
आरम्भयज्ञाजपयज्ञो विशिष्टो दशभिर्गुण ।। • उपांशु स्थाच्छतगुणः सहस्रो मानसः स्मृतः ॥१०