SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। निरोधाजायते वायुयोरग्निहि जायते । तापेनापो हि जायन्ते ततोऽन्तः शुभ्यते त्रिभिः॥८ तथा चर्म तथानङ्गा दोषा अभ्यर्ति धर्मतः । तथेन्द्रियकृता दोषा दान्ते प्राणनिमहात् ॥ प्राणायामैदेहेत् दोषाद्धारणाभिश्च किल्विषम् । प्रत्याहारेण विषयान्थ्यानेनानैश्वरान् गुणान् ॥१० न च तीव्रण तपसा न स्वाध्यायैर्नचेज्यया। मति(गति)गन्तुं सुराः(द्विजाः शक्ता योगात्संप्राप्नुवन्तियाम्।। योगात्सम्प्राप्यते ज्ञानं योगाद्धर्मस्य लक्षणम् । योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ॥१२ प्रणवाद्या स्तथा वेदाः प्रणवे पर्यवस्थिताः। वाङ्मयः प्रणवं सवं तस्मात्प्रणवमभ्यसेत् ॥१३ प्रणवे विनियुक्तस्य व्याहृतीषु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते कचित् ॥१४ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः। .. ब्रह्माणी चैव गायत्री पावनं परमं (त्रयम) स्मृतम् ॥१५ समाहृतीकां (सव्याहृतिका) सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते ॥१६ इत्यात्रेयस्मृत्यो प्रथयोऽध्यायः॥ -::
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy