SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ नारदीयमनुस्मृतिः। न वृद्धातुरबालेषु नच स्वल्पापराधिषु ॥३५ ।। विषस्व पलषड्भा(गं ? गो) भागो विंशतिम(स्यतत्स्तु यः) । तंदष्टभागशुद्धं तु शो(ध्य ? ध्ये) दद्याद् घृताप्लुतम् ॥३६ यथोक्तेन विधानेन विद्वान् स्पृष्ट्वानुमोदितः। सोपवासस्तु खादेत देवब्राह्मणसन्निधौ ।।३७ विषवेगक्रमापेतं सुखेन यदि जीवति । विशुद्धमिति तं ज्ञात्वा राजा सत्कृय मोक्षयेत् ॥३८ अत.परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । मध्याह्न सोपवासस्य स्नातस्यामा॑म्बरस्य च ॥३६ न शूद्रस्याव्यसनिनः कोशपानं विधीयते । यद्भक्तः सोऽभियुक्तः स्यात् तद्देवत्यं तु प्राङ्मुखः ॥४० प्रत्युच्चार्य ततोास्यं पाययेत् प्रसृतित्रयम् । द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः ॥४१ प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना । ऊवं त्रिसप्तदिवसाद् वैकृतं सुमहद् यदि ॥४२ नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् । महापराधे निर्दोष कृतघ्ने क्लीबकुत्सिते । नास्तिकबात्यबालेषु कोशपानं विवर्जितम् ।।४३ चराचरस्य जगतो जलेश ! प्राणधारणम् । मानुषोऽयं त्वया देव ! धर्मतः शुद्विमिच्छति ॥४४ अद्भपश्चाग्निरभूत् यस्मादतस्तोये विशेषतः। तस्मात् सत्येन भगवञ्जलेश त्रातुमर्हसि ।।४५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy