________________
साहसं अतुईशं विवादपदम् ।
अथ साहसं चतुर्दशं विवादपदम् । सहसा क्रियते कर्म यत्किञ्चिद् बलदर्पितः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥१ तत् पुनत्रिविधं शेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥२ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपावमर्दाथैः प्रथमं साहसं स्मृतम् ॥३ वास.पश्चन्नपानानां गृहोपकरस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥४ व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् । प्राणोपरोधि यश्चान्यदुक्तमुत्तमसाहसम् ॥५ तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञ ईष्टः पञ्चशतावरः ॥६ वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥७ । अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः । वधाहते ब्राह्मणस्य न वर्थ ब्राह्मणोऽर्हति ॥८ शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताको निर्माण गर्दभेन च ॥६