SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३१० - नारदीयमनुस्मृतिः। अज्ञातपितृको यस्तु कानीनो गूढमातृकः । मातामहाय दद्याश्च पिण्डं रिक्थं हरेत च ॥१७ जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा । अरिक्थभाजस्ते सर्वे बीजिनामेव ते स्मृताः ॥१८ दास्ते बीजिनः पिण्डं माता चच्छुल्कतो हृता । अशुल्कोपनतायां तु पिण्डदा वोढुरेव ते ॥१६ पितृद्विट् पतितः पण्डो यश्च स्यादौपपातिकः । औरसा अपि नैतेंऽशं लभेरन् क्षेत्रजाः कुतः ॥२० दीर्घतीव्रामयग्रस्ता जल्लोन्मत्तान्धपङ्गवः। भर्तव्याः स्युः कुटुम्ब्यास्ते तत्पुत्रास्त्वंशभागिनः ॥२१ द्विरामुष्यायणा दद्युभ्यां पिण्डोदके पृथक्। रियादशमादधुर्बीजिक्षेत्रिकयोस्तथा ॥२२ संसृष्टिनां तु यो भागस्तेषामेव स इष्यते। अतोऽन्यथांशभाजो हि निर्बीजिष्वितरानियात् ।।२३ भ्रातृणामप्रजः प्रेयात् कश्चिञ्चेत् प्रजेत् तथा । विभजेयुर्धनं तस्य शेषास्ते स्त्रीधनाद् विना ॥२४ भरणं चाश्य कुर्वीरंस्त्रीणामा जीवितक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ।।२५ स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः । आ संस्काराद् भरेतैनां परतो विभूयात् पतिः ॥२६ मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः । विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥२७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy