SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अध्यायः] प्रायश्चित्तवर्णनम् । अभोज्यानां तु भुक्ताऽऽन्न स्त्रीशूद्रोच्छिटमेव च । जग्धा मांसमभक्ष्यञ्च सप्तरात्र यवान्पिबेत् ॥१५३ शुक्तानि च कषायांश्च पीत्वा मेव्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥१५४ विड्वराहखरोट्राणां गोमायो कपिकाकयोः। प्राश्य मूत्रपुरीषाणि द्विजश्चांद्रायणं चरेत् ।।१५५ शुष्काणि भुक्ता मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्वमेतदेव व्रतं चरेत् ॥१५६ क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृळू विशोधनम् ।।१५७ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः। स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥१५८ ब्रह्म (व्रत) चारी तु योऽश्नीयान्मधु मांसं कथंचन । स कृत्वा प्राकृतं कृळू व्रतशेष समापयेत् ॥१५६ विडालकाकाखूच्छिष्टं जग्ध्वाश्वनकुलस्य च । केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम् ॥१६० अभोज्यमन्न नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तं तूत्ताय शोध्यं वाप्याशु शोधनैः ॥१६१ . एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्तृणां व्रतानां श्रूयतां विधिः ॥१६२ धान्यानधनचौर्याणि कृत्वा कामाद्विजोत्तमः। सजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥१६३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy