SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ . "पादा ऽध्यायः] राजधर्मदण्डवर्णनम्। १६५ अग्निदान्भक्तदाश्चैव तथा शस्त्रावकाशदान। .. संनिधातूंश्च मोषस्य हन्याच्चौरमिवेश्वरः ।।२७८ तडागभेदकं हन्यादप्सु शुद्धवधेन वा। यद्वाऽपि प्रतिसंस्कुर्याद्दाप्यसूत्तमसाहसम् ॥२७६ कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहतूंश्च हन्यादेवाविचारयन् ॥२८० यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमं वाप्यपां भिद्यात्स दाप्य पूर्वसाइसम् ॥२८१ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥२८२ आपद्गतोऽथवा वृद्धा गर्भिणी बाल एव वा । परिभाषणमहन्ति तच शोध्यमिति स्थितिः ॥२८३ चिकित्सकानां सर्वेषां मिश्याप्रचरतां दमः। . अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥२८४ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः। प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च ॥२८५ अदूषितानां द्रव्याणां दूषणे भेदने तथा। ... मणीनापवेधे च दण्डः प्रथमसाहसः ॥२८६ . समैहि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा। समाप्नुयाइमं पूर्व नरो मध्यममेव वा ॥२८७ बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्यरन्विकृताः पापकारिणः ॥२८८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy