SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्थूलविचारणे यदि कुत्रचित्स्मृतीनां परस्परं विरोधाभास एकवाक्यता च न प्रतीयते तत्र देशकालावस्थामवेक्ष्य स्मतिवचनानि नियोजयितव्यानि इति समन्वयाधिकारो विरोधनिरसनाय पूर्वाचार्यैरनुमोदित एव । जगति स्मृत्याचार एव संस्कृतिप्रसारणे निरूपद्रवो राजमार्गः। जनतन्त्रराजशासने कस्यचिदपि साम्प्रदायिकता पथप्रदर्शनतदाचरणे विभिन्न-सम्प्रदायिनां-तिरस्कारे कस्यचिदेकसम्प्रदायस्यानुशासनं प्रमाणीकृत्य सर्वे विभिन्नसम्प्रदायिनः कस्यचिदेकस्य सम्प्रदायस्यानुशासने महाननर्थोऽधर्मश्च राजनीतिमार्गाभिशापश्च (Blunder of the Politics) भवति। राजधर्मस्तु सर्वान् स्वे स्वे धर्मे संरक्षणं देयमिति सेयं मर्यादा भारतीय धर्मशास्त्रे प्राचुर्येण सङ्कलिताऽस्ति, येन पारस्परिकसद्भावना समतैकता दैनंदिनं सम्बर्धत। संस्कृतिमयं जीवनं पृथिव्यां धर्मशास्त्रैकनिधिः सर्वैरनुभूता । न कोऽपि स्मत्याचारसम्पन्नः परैरभिभूयते न च परांस्तिरस्करोति अपि तु सर्वदा सर्वेषु बन्धुत्वव्यवहारेण समादरं करोति । ___ अतोऽस्माभिः स्मृतिशास्त्ररहस्यं प्राचीनानि शीर्णविशीर्णपुस्तकान्येकीकृत्य स्मृतिसन्दर्भोऽयं पृथिव्यां सर्वदेशवासिनां मनुष्याणां हिताय भारतीय प्राचीनसोहार्दपूर्णसम्बन्धदृढीकरणाय प्रकाश्य विदुषामविदुषां समेषामेव मानवजातीयानां पण्डितानां साधारणकृषकानां श्रमजीविनाञ्च राजशासनकर्मकराणाञ्च करकमलाञ्चितः समर्प्यते। आशास्महे परोवर्यविद्वांसः समादरेणैतद्भारतीय प्रणय पुरस्कारं स्मार्तोपहारं समुररीकृत्य स्वस्वसम्मत्या भारतीय प्राचीन बान्धवान्कृतार्थीकुर्वन्तु । शमिति । भवदीयस्य राजगुरुरित्युपाधिभाजः __ शास्त्रिणो हरिदत्तस्य (टेहरी गढ़वाल वास्तव्यस्य)
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy