________________
श्रीगणेशाय नमः। किञ्चित्प्रास्ताविकम् ।
विदाकुर्वन्त्वत्रभवन्तो भवन्तः परोवर्यसृतिसमाचरन्तः सन्तो यद्विद्याप्रवत्तकानां व्यवहारनिष्णातानां तत्र भवतां प्रभवतां मन्वादिस्मत्याविष्कृतानां तद्गतधार्मिकजीवनोपयोमिव्यवहाराणाञ्च अनवच्छिन्ननिरावरणकर्तृणां धीराणां विदुषाञ्चाम्नाय सृतिचञ्चरितपदचरणानां स्वारस्यं स्मृतिसम्दर्भोऽयं विभ्राजते।
इह खलु मानव संसृतो प्रारब्धकर्म-भुज्यमानानां रजस्तमोऽभिभूतानां कामवृत्तीनां न बिना संस्कृतिजीवनविकासेन भव्यमर्यादाचरणा भनवस्थितिप्राया दरीदृश्यन्ते।
अतोऽत्र कोऽप्युपायः शास्त्रीयो लौकिको व्यवहारिको वा येन मानवा मानवतां विकाशयेयुः, विचार्यते कारुणिकानां महर्षीणां तत्साधनं स्मृत्याचरणं लोके प्रसारितमासीत्, इदानीम्भोगलोलुपः हतमानसः मानवतां मन्यमानः तत्स्मतिपन्था विस्मारितप्रायः । अतो मनुस्मृतौ राज्यानुशासनपद्धतावपि_ "स्वधर्मचरिताम्लोकान्विनीय स्थापयेत्पथि” इति स्मरणात् स्वे स्वे कर्मणि सर्वेषां पथभ्रष्टानां पथप्रदर्शनं राजशासनमपि अनुमोदते।
"स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥" इति महर्षियाज्ञवल्क्येन व्यवहारस्वरूपनिर्णयेऽपि स्मृत्याचारव्यपेतिता (भ्रष्टता) प्रदर्शिता। अतो जगति सुखमयोभयलोकसंसिद्धः स्मृत्याचारस्तदनुकूलव्यवहारश्च सर्वतो विभावनीयः, स्मृत्याचारसंरक्षणे प्रचारणे च न केषाम्विप्रतिपत्तिः, भारतीय जनानां गौरवास्पदं स्मृत्याचार एव । स्मतावाचारसदाचारलोकाचारदेशाचारशिष्टाचारादीनामाचरणं लोकहिताय प्रदर्शितम्-तथापि,
"निजधर्माविरोधेन यस्तु सामयिको भवेत्।
सोऽपि यत्नेन संरक्ष्योधर्माराजकृतश्चयः॥" इत्यनेन सामयिकाचारे राजधर्माचारस्याप्यवहेलना न कार्या स्मृत्या येन दोषापत्तिरनेन निर्घोषिता । आचारस्तु विधिनिषेधात्मकं कमति स्मृतिशास्त्रेणावबुध्यते।