SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] स्त्रीधर्मपालनवर्णनम् । ज्येष्ठो यवीयसो भार्या यवीयान्वाऽप्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥५८ देवराद्वा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया । प्रजेप्सिताधिगन्तब्या सन्तानस्य परिक्षये ॥५६ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेसुत्रं न द्वितीयं कथञ्चन ॥६० द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिवृत्तं नियोगार्थ पश्यन्तो धर्मतस्तयोः ॥६१ विधवायां नियोगार्थे निवृत्ते तु यथाविधि । गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ।।६२ नियुक्तौ यो विधि हित्वा वर्तेयातां तु कामतः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥६३ नान्यास्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥६४ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् । न विवाहविधायुक्तं विधवावेदनं पुनः ॥६५ अयं द्विजैरविद्वद्भिः पशुधर्मो विगर्हितः । मनुयाणामपि प्रोक्तो वेने राज्यं प्रशासति ॥६६ स महोमखिलां भुञ्जनाजर्षिप्रवरः पुरा । वर्णानां सङ्करं चक्र कामोपहतचेतनः ॥६७ ततः प्रभृति यो मोहात्प्रमीतरतिको स्त्रियम् । नियोजयत्यपत्यार्थ तं विगर्हन्ति साधवः ।।६८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy