SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १७४ मनुस्मृतिः। [नवमो सकृदंशो निपतति सकृत्कन्या प्रदीयते। सकृदाह ददामीति त्रीण्येतानि सतां सकृत् ।।४७ यथा गोऽश्वोष्ट्रदासीषु महिष्य जाविकासु च । नोत्पादकः प्रजाभागी तयैवान्याङ्गनास्वपि ॥४८ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं कचित् ॥४६ यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । .. गोमिनामेव. ते वत्सा मोघं स्कन्दितमार्षभम् ।।५० तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः।। कुर्वन्ति क्षेत्रिगामयं न बीजी लभते फलम् ।।५१ फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा। प्रयक्षं क्षेत्रिगामर्थो बीजायोनिर्गरोयसी(बलीयसी)॥५२ क्रियाभ्युपगमात्वेतद्बीजाथं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥५३ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्बीजं न वता लभते फलम् ॥५४ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥५५ एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥५६ भ्रातुर्येष्ठस्य भार्या या गुरुपल्यनुजस्य सा। यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥५७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy