SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १३८ मनुस्मृतिः। [अष्टमों साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि । अवानरकमभ्येति प्रेत्य स्वर्गाश्च हीयते ।।७५ यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किंचन । पृष्टस्तत्रापि तद्व्याद्यथादृष्टं यथाश्रुतम् ॥७६ एको लुब्धस्त्वसाक्षी स्याह्वयः शुच्योऽपि न स्त्रियः । स्त्रीबुद्धरस्थिरत्वात्तु दोषैश्वान्येऽपि ये वृताः ।।७७ स्वभावेनैव यत्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रू युधर्मार्थ तदपार्थकम् ।।७८ सभान्तः साक्षिगः प्राप्तानर्थिप्रत्यर्थिसन्निधौ । प्राविवाकोऽनुयुञ्जीत विधिनाऽनेन सान्वयन् ।।७६ यद्वयोरनयोर्वेत्थ कार्येऽस्मिञ्चेष्टितं मिथः । तद्भूत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥८० सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोत्य(पुष्कलान् )निन्दितान् । इह चानुत्तमां कीर्ति वागेषा ब्रह्मपूजिता ।।८१ साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैभृशम् । विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेहतम् ।।८२ सत्येन पूयते साक्षी धर्मः सत्येन वर्द्धते । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥८३ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षि गमुत्तमम् ॥८४ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ।।८५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy