SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वानप्रस्थवर्णनम् । १०३ अग्नीनात्मनि वैतानान्त्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ।।२५ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥२६ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेष वनवासिषु ॥२७ ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान्वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥२८ एताश्चान्याश्च सेवेत दीक्षा विप्रो बने वसन् । विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥२६ ऋषिभिर्ब्राह्मगैश्चैव गृहस्थैरेव सेविताः। विद्यातपोविवृद्धयर्थ शरीरस्य च शुद्धये ॥३० अपराजितां वाऽऽस्वाय ब्रजेंदिशमजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः ॥३१ आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥३२ वनेषु तु विहृत्यैवं तृतीयं 'भागमायुषः। चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥३३ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षावलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥३४ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्ष तु सेवमानो ब्रजत्यधः ।।३५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy