SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [पञ्चमो विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः ।।६६ एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेतशुद्धिं निवोधत ॥१०० असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुध्यति त्रिराण मातुराप्तांश्च बान्धवान् ॥१०१ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमहव न चेत्तस्मिन्गृहे वसेत् ॥१०२ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलं स्पृष्ट्वाग्नि घृतं प्राश्य विशुध्यति ॥१०३ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रण नाययेत् । अस्वर्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता ॥१०४ ज्ञानंतपोग्निराहारो मृन्मनो वायुपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्ध कर्तृणि देहिनाम् ॥१०५ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिहि स शुचिर्न मृद्वारिशुचिः शुचिः ॥१०६ क्यान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥१०७ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा सन्यासेन द्विजोत्तमः ॥१०८ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ।।१०६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy