SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रेतशुद्धिवर्णनम् । ६१ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी मानेन स्त्री रजस्वला ॥६६ मृणामकृतचूडानां विशुद्धि:शिकी स्मृता । निवृत्तमुण्डकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥६७ मन द्विवार्षिकं प्रेतं निदध्युर्बान्धवा वहिः । अलङ्कृत्य शुचौ भूमावस्थिसंचयनाहते ॥६८ नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया । मरण्ये काष्ठवत्त्यक्त्वा क्षपेतत्र्यहमेव च ॥६६ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । मातदन्तस्य वा कुर्युन्नाम्नि वाऽपि कृते सति ।।७० सामचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ।।७१ स्त्रीणामसंस्कृतानां तु व्यहाच्छुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ।।७२ अक्षारलबणान्नाः स्यु निमज्जेयुश्च ते व्यहम् । मांसाशनं च नाश्मीयुः शयीरंश्च पृथक क्षितौ ॥७३ सन्निधावेष वै कल्पः शावाशौचस्य कीर्तितः । असन्निधावयं ज्ञेयो बिधिः सम्बन्धिवान्धवैः ।।७४ विगतं तु विदेशस्थ शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।।७५ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुष्यति ॥७६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy