SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवाहकर्मवर्णनम् । यो यस्य धो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्व प्रवक्ष्यामि प्रसवे च गुणाऽगुणान् ॥२२ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु तानेव विद्याद्वान्न राक्षसान् ॥२३ चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ।।२४ पंचानांतु त्रयो धा द्वावधम्यौँ स्मृताविह । पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन ।।२५ पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ । गान्धर्वो राक्षसश्चैव धम्यौं क्षत्रस्य तौ स्मृतौ ॥२६ आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयं । आहूय दानं कन्याया बाझो धर्मः प्रकीर्तितः ।।२७ यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं देवं धर्म प्रचक्षते ॥२८ एकं गोमिथुनं द्व वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥२६ सहोभौ चरतां धर्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥३० ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याऽप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥३१ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥३२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy