________________
चैत्यगच्छयतिवातसम्मतोवसतान्मुनिः । नगरेमुनिभिर्नात्र,वस्तव्यंतदसम्मतैः ॥७६ ॥ राज्ञां व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः । यदादिशसि तत्काय, राजन्नेवं स्थिते सति ॥ ७७ ।। राजा प्राह समाचारं, प्राग्भूपानां वयं दृढ़म् । पालयामोगुणवतां,पूजांतूल्लङ्घयम न ॥ ७८ ॥ भवादृशांसदाचारनिष्ठानामाशिषानृपाः । एधंतेयुष्मदीयंतद्राज्यंनात्रास्तिसंशयः ॥ ७९ ॥ "उपरोधेन"नोयममीषांवसनंपुरे । अनुमन्यध्वमेवंच,श्रुत्वा तेत्र तदादधुः ॥ ८० ॥ सौवस्तिकस्ततःप्राह,स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थ,श्रीमुखेनप्रदीयताम् ॥ ८१ ॥ तदासमाययौतत्र,शैवदर्शनिवासवः । ज्ञानदेवाभिधःक्रूर समुद्रविरुदार्हतः ॥ ८२ ॥ अभ्युत्थाय समभ्यर्च्य, निविष्टं निज आसने । राजा व्यजिज्ञपत्किंचिदथ (ध प्र०) विज्ञप्यते प्रभो! ।। ८३ ॥ प्राप्ताजैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्यतपस्वीन्द्रः, प्राहप्रहसिताननः ॥ ८४ ॥ गुणिनामर्चनांयूयं कुरुध्वंविधुतैनसम् । सोऽस्माकमुपदेशानां, फलपाकः श्रियां निधिः ॥ ८५ ॥