________________
( ७ )
“ तत्र कृत चातुर्मासिककल्पानां श्रीजिनवल्लभवाचना चार्याणामाश्विनमासस्य कृष्णपक्षत्रयोदश्यांश्रीमहावीरदेवगर्भापहारकल्याणकंसमागतं । ततः श्राद्धानांपुरोभणितंजिनवल्लभगणिना । भोः श्रावका ! अद्यश्रीमहावीरस्यषष्ठंगर्भापहारकल्याणकं “पंचहत्थुत्तरेहोत्था साइणा परिनिव्वुडे" इति प्रकटाक्षरै रेवसिद्धान्तेप्रतिपादना दन्यच्चतथाविधंकिमपिविधिचैत्यंनास्ति, ततोऽत्र व चैत्यवासिचैत्येगत्वायदिदेवावंद्यतेतदाशोभनंभवति, गुरुमुखकमलविनिर्गतवचनाराधकैः श्रावकैरुक्त'भगवन् यद्युष्माकं सम्मतं तत्क्रियते, ततः सर्वेपौषधिका:श्रावका सुनिर्मलशरीरानिर्मलवस्त्रागृहीतनिर्मलपूजोपकरणा गुरुणासहदेवगृहेगंतुं प्रवृत्ताः । ततोदेवगृहस्थितयार्थिकया गुरु समुदायेनागच्छतो गुरून्दृष्ट्वा पृष्टं को विशेषोऽद्य के श्राद्धनापि कथितं । वीरगर्भापहारषष्ठकल्याणककरणार्थ मेते समागच्छंति, तया चिंतितं पूर्वं केनापि न कृतमेतदेतेऽधुनाकरिष्यतीतिन युक्तं । पश्चात्सँयतीदेवगृहद्वारे पतित्वास्थिताद्वारप्राप्तान् प्रभूनवलोक्योक्तमेतया दुष्टचित्तया मया मृतया मृतयायदि प्रविशत ताग प्रीतिकं ज्ञात्वा निर्वर्त्य स्वस्थानं गताः पूज्याः ! श्राद्धैरुक्त ं भगवन्नस्माकं बृहत्तराणि सदनानि संति, ततएकस्यगृहोपरिचतुर्विंशतिपट्टकं धृत्वा देववंदनादिसर्वधर्म-प्रयोजनंक्रियते, षष्ठकल्याणकमाराध्यते । गुरुणा भणितं तत्कि मत्रो युक्तं । तत आराधितं विस्तरेण कल्याणकं" गणधर सार्द्ध शतक अन्तर्गत प्रकरण पृष्ठ १८
›
}