________________
સમ્રાટ્ સંપ્રતિની સંસ્કૃત કથા
૩૫૩
भूपतिः प्राह कीदृक्षस्तयाऽभाणि त्वया सह । एकासनगता भुजे, सद्भोज्यं त्वत्करार्पितं ॥ १२ ॥ किमत्र दुष्करं कान्ते !, निजगाद नृपस्ततः । प्राप्ते भोजनकाले च, तामाहूय न्यवीविशत् ॥ १३ स्वकीयार्द्धासने चित्र - मणिरत्नविराजिते । निविष्टः स्वकरेणास्यै ददौ भोज्यं स्वभाजनात् | १४ | विस्मृतं चास्य तद्भोज्यं, यथेदं विषभावितम् । अत्रान्तरे समायातश्चाणाक्यस्तं ददर्श च ॥ १५ ॥ अवादीत्स ततो हा हा, न सुंदरमिदं कृतं । यदस्यै विषसम्मिश्रं भोजनं प्रददौ भवान् ॥ १६ ॥ यतो व्यापादितानेन, न केवलमियं त्वया । संभाव्य मानस लक्ष्मा, गर्भोऽप्यस्या विनाशितः १७ वदतैवैवमाकृष्य, चाणक्येन कृपाणिकाम् । विदार्योदरमेतस्या, गर्भ आचकृषे लघु ॥ १८ ॥ धृत्वा घृतादिमध्ये च, कियन्त्यपि दिनान्यमुम् । स तथा पालयामास, यथासौ पुष्टिमागतः । १९ केवलं यस्तदा तस्य, मस्तके बिंदुकोऽपतत् । मातुर्विषान्नकवलात्स, तेनांकितशीर्षकः ॥ २० ॥ बिंदुसाराभिधः ख्यातिं जगाम गुणमन्दिरम् । कलाकलापदेहाभ्यां वृद्धिं प्राप क्रमेण च । २१ । श्री चन्द्रगुप्त राजे च, देवभूयं गतेऽन्यदा । राजा स एव संजातो, जातिमान् ख्यातविक्रमः | २२| एकान्तेऽभाणि धात्र्या च, पुत्र ! सर्वाप्यसौ तव । राज्य श्रीरार्य चाणक्य - प्रसादेन समागता || २३ तस्मादमुष्य सततं, गुरुरत्नमहोदधेः । प्रवर्त्यं सम्यगेवेति, स तथैव प्रवर्त्तते ॥ २४ ॥ अन्यदैकान्तवर्येष, नन्दसत्केन मंत्रिणा । सुबन्धुनाऽभ्यधाय्येवं देव ! यद्यपि ते वयं ।। २५ ।। विपक्षपक्षवर्तित्व- सम्भावनवहिष्कृताः । तथाऽप्येतस्य पट्टस्य, हितं विज्ञपयामहे ॥ २६ ॥ चाणक्यो यो महामंत्री, भवत्सन्मानभाजनम् । क्षुद्रः प्रकृत्या खल्वेष, निःशूकः पापकर्मणि २७ त्वदीया जननी यस्माद्विक्रोशन्त्यतिविस्वरम् । कुक्षिं विदार्य पापेन, प्रेषिता यममंदिरम् ॥ २८ ॥ अकृत्य कृत्यमथवा, तदेतस्य न विद्यते । तस्मादात्मा त्वयाप्यस्माद्रक्षणीयः प्रयत्नतः ॥२९॥ एतदश्रद्दधानेन, तद्वचस्तेन भूभुजा । पृष्टा स्वधात्री किं सत्यमिदमम्ब ! न वा वचः ॥ ३० ॥ सावोचन्मुग्धभावेन, पुत्र ! सत्यं ततो रुषा । आगच्छन्तममुं दृष्ट्वा नृपस्तस्थौ पराङ्मुखः । ३१ । ततो विज्ञाय चाणक्यो, भूपं दुर्जनभावितम् । द्रुतं निवर्त्त्य तत्स्थाना - दाजगाम निजं गृहं । ३२ । स्वबान्धवान्समाहूय, शिक्षयित्वा यथोचितं । देवगुर्वादिकृत्येषु, स्वद्रव्यं विनियोज्य च । ३३ । एकापवरकस्यान्तर्मञ्जूषां विनिवेश्य च । तन्मध्ये स्थापयमास, दिव्यवाससमुद्रकं ||३४|| लिखितं पत्रकं चैकं, क्षित्रा तत्र स्वयं त्वसौ । प्रदाय तालकान्याशु, निर्जगाम ततो गृहात् ॥ ३५ ॥ आगत्य नगरद्वार मिंगिनी मरणोद्यतः । मध्येकारीषमासीनो, विहितानशनक्रियः ।। ३६ ।। ज्ञात्वा व्यतिकरं चैनं राज्ञो धात्री वभाण तम् । पुत्र त्वयार्यचाणक्ये, कि मीदृशमनुष्ठितम् । ३७| यंत एतत्प्रसादेन सप्ताङ्गो राज्यविस्तरः । सर्वमूलधनं चैतजीवितं तत्र वर्त्तते ॥ ३८ ॥ किश्व—
त्वजीवितार्थिना येन, न पापं स्त्रीवधोत्थितं । गणितं न च लोकानाम-पवादोऽतिदारुणः ||३९||
૪૫