________________
.
वर्षति त्वयि सर्वत्र कलापूर्ण । पयोधरे । दुर्भाग्यच्छत्र - संच्छन्नैः प्राप्यन्ते नाम्बुबिन्दवः ॥ २१ ॥
अद्भुतो वर्तसे कोऽपि त्वं कलापूर्ण ! पञ्जरः । यतो बद्धा विमुच्यन्ते बध्यन्ते च विमुक्तकाः ॥ २२ ॥
कमलखण्डनिर्लेप ! कमलदलनिर्मलः । कमलसदृशास्य ! त्वं कलापूर्ण ! चिरं जय ॥ २३ ॥
विलोक्य त्वां कलापूर्णं, कलापूर्ण ! कलाधिपः । मन्येऽपूर्णं निजं मत्वा, प्रयातो गगनाङ्गणे ॥ २४ ॥
है
यदीये स्वान्तकासारे, लसति प्रभुपत्कजम् । श्रीमन्तं तं कलापूर्णं, वन्देऽहं भावतः सदा ॥ २५ ॥
- रचयिता : मुक्ति / मुनि, आधोई (कच्छ), वि.सं. २०३३
930
*
*
*
*
*
*
*
*
*
*
*
* *sh