________________
षोडशोऽध्यायः
श्रीभगवानुवाच। अभयं सस्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥२॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं देवीमभिजातस्य भारत ॥ ३ ॥ अन्वयः। हे भारत ! अभयं (भयाभावः सत्त्वसंशुद्धिः (चित्तस्य सुप्रसन्नता), ज्ञानयोगव्यवस्थितिः ( आत्मज्ञानोपाये परिनिष्ठा ), दानं (यथाशक्ति संविभागोऽन्नादीनां ), दमश्च ( बाह्य न्द्रियसंयमः ), यज्ञश्च (श्रीतोऽग्निहोत्रादि स्मात्तश्च देवयज्ञादिः), स्वाय्यायः (ऋग्वेदाद्यध्ययनं ), तपः ( शारीरादिः), आर्जवं (अवक्रता); अहिंसा ( परपीड़ावर्जनं), सत्यं ( यथादृष्टार्थभाषणं), अकोधः (ताड़ितस्यापि चित्त क्रोधानुत्पत्तिः ), त्यागः (औदास्यं ), शान्तिः (अन्तःकरणस्योपशमः ), अपैशुनं ( परोक्षे परदोषप्रकाशनं पैशुनं तद्वर्जनं ), भूतेषु ( दौनेषु ) दया, अलोलुपत्वं ( लोभाभावः ), मार्दवं ( मृदुत्वं ), ह्री ( अकार्यप्रवृत्तौ लोकलज्जा ), अचापलं ( व्यर्थक्रियाराहित्यं ) ( तेजः ) प्रागलभ्यं ), क्षमा ( परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धः ), धृतिः ( दुःखादिभिरवसादे चित्तस्य स्थिरीकरणं ), शौचं (बाह्याभ्यान्तरशुधिः), अद्रोहः ( जिघांसाराहित्यं ), नातिमानिता (आत्यन्यतिपूज्यत्वाभिमानाभाषः)-एतानि षड्विंशति प्रकाराणि देवी सम्पदं अभिजातस्य भवन्ति ( देवयोग्यां सात्त्विकी सम्पदमभिलक्ष्य तदाभिमुख्येन जातस्य भाविकल्याणस्य पुसी भवन्तीत्यर्थः ॥१॥२॥३॥
अनुवाद। हे भारत! अभय, चित्तको सुप्रसन्नता, ज्ञानयोगमें अवस्थिति, दान, दम, यज्ञ, वेदाध्ययन, तप, आर्जव, अहिंसा, सत्य, अक्रोध, त्याग, शान्ति, अपै शुन्य, सर्वभूतमें दया, अलोलुपता, मृदुत्ता लज्जा, चपलताविहीनता, तेज, क्षमा, .