________________
द्वादशः सर्गः
१२३ अयःशकुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥ अथ रक्षो रावणोऽयसः शङ्कभिः कीलश्चितां कोर्णा शतघ्नी लोहकण्टककीलितयष्टिविशेषाम् । 'शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता। यष्टिः' इति केशवः। हृतां विजयलब्धाम् । वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव । शत्रवे राघवायाक्षिपत्क्षिप्तवान् । कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा। कूटशाल्मलि मैकमूलप्रकृतिः कण्टकी वृक्षविशेषः । 'रोचनः कूटशाल्मलिः' इत्यमरः । तत्सादृश्यं च गदाया अयःशङ्कुचितत्वादनुसंधेयम् ॥
अन्वयः-अथ रक्षः अयःशंकुचितां शतनी हृतां वैवस्वतस्य, कूटशाल्मलिम् इव शत्रवे अक्षिपत् ।
व्याख्या-अथ = अनन्तरम् रक्षः रावणः अयसः = लोहस्य शंकवः =शल्यानि कीलकानीत्यर्थः, इति अयःशंकवस्तैः चिता =आकीर्णा ताम् अयःशंकुचिताम् । “वा पुंसि शल्यं शंकुर्ना" इत्यमरः। “संख्याकीलकयोः शंकुः” इति च शाश्वतः। शतं हन्तीति शतघ्नी तां शतघ्नीम् = शतमारिणीम् हृतां = यमं विजित्य लब्धां विविधं वस्ते = आच्छादयतीति विवस्वान्। विवः =रश्मिः = अस्यास्तीति वा विवस्वान् । विवस्वतः = सूर्यस्य अपत्यं पुमान् वैवस्वतस्तस्य वैवस्वतस्य = यमराजस्य कूटयतीति कूटा =दाहकत्रों । कूटा शाल्मलिरिति कूटशाल्मलिः तां कूटशाल्मलिं = यमस्य गदाम् शत्रवे =राववाय अक्षिपत् = चिक्षेप, प्रक्षिप्तवानित्यर्थः ।
समास:--अयसः शंकवः अयःशंकवः, अयःशंकुभिः चिता अयःशंकुचिता, ताम् अयःशंकुचिताम् । कूटा चासौ शाल्मलिः कूटशाल्मलिस्तां कूटशाल्मलिम् ।
हिन्दी-इसके पश्चात् रावण ने लोहे की कीलों से जड़ी हुई, और सैकड़ों को मारने वाली, तथा यमराज से जीतकर छीनी हुई वह गदा राम के ऊपर चलाई, जो कि सूर्य के पुत्र यमराज की कूटशाल्मली (पापियों को दण्डित करने वाली ) नाम की गदा के समान भयङ्कर थी।
विशेष-अस्त्र की भाँति प्रयुक्त किया जाने वाला शस्त्र शतघ्नी होता है। इसे राकेट भी कह सकते हैं तथा लोहे की कीलें जड़ी बड़ी शिला को भी कहते हैं ॥ ९५ ॥
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम् ॥ ९६ ॥ ___ राववो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च । 'आशा तृष्णादिशोः प्रोक्ता' इति विश्वः। अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छेद । अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ॥ ___ अन्वयः-राववः रथम् अप्राप्ताम् तां सुरद्विषाम् आशां च अर्धचन्द्रमुखैः वाणैः कदलीसुखं यथा स्यात्तथा चिच्छेद ।