________________
१२२
रघुवंशे विनिमयोः...व्यतिहारः” इति हेमचन्द्रः।) वेदिः = वेद्याकारा भित्तिः मत्तौ च तो वारणौ मत्तवारणौ, तयोः मत्तवारणयोः = उन्मत्तगजयोः इव = यथा सामान्या = साधारणा, द्वयोः समाना न तु एकस्य कस्यचित् इत्यर्थः अभूत् = जाता ।
समासः-जयस्य श्रीः जयश्रीः। विक्रमस्य व्यतिहारः विक्रमव्यतिहारस्तेन विक्रमव्यतिहारेण । मत्तौ च तो वारणौ, मत्तवारणी, तयोः मत्तवारणयोः ।
हिन्दी-पराक्रम के उलट-पलट, होने के कारण, राम और रावण के बीच में विजयलक्ष्मी की वैसे ही साधारण दशा हो गई, जैसी कि लड़ते हुए दो मतवाले हाथियों के बीच की दीवाल की होती है। अर्थात् कभी राम प्रबल पड़ते तो कभी रावण, अतः जयश्री भी कभी राम की ओर तो कभी रावण की ओर जाती। इस प्रकार किसी एक की ओर न होकर सामान्य रूप से आती-जाती रही ।। ९३ ॥
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥ ९४ ॥ स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयोः रामरावणयोर्मुक्तां पुष्पवृष्टिम् । द्वयीमिति शेषः । परस्परं शरव्राता न सेहिरे । अहमेवालं किं त्वयेति चान्तराल एवेतरेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ।।
अन्वयः-कृतप्रतिकृतप्रीतैः सुरासुरैः तयोः मुक्तां पुष्पवृष्टिं परस्परशरव्राताः न सेहिरे ।
व्याख्या कृतं = स्वयमस्त्रप्रयोगः प्रतिकृतं = शत्रुकृतस्य प्रतीकारः, इति कृतप्रतिकृते, ताभ्यां प्रीताः प्रसन्नास्तैः कृतप्रतिकृतप्रीतैः सुराः= देवाः असुराः =राक्षसास्तैः सुरासुरैः यथाक्रमं तयोः रामरावणषोः मुक्तां= प्रक्षिप्ताम् । सुरैः रामस्योपरि, राक्षसैश्च रावणस्योपरि पातितामित्यर्थः । पुष्पाणां = कुसुमानां वृष्टिः = वर्षम् , ताम् पुष्पवृष्टिं द्वयीमिति शेषः । शराणां = बाणानां वाताः =समूहाः इति शरव्राताः। परस्परम् = अन्योन्यं शरव्राताः इति परस्परशरवाताः न सेहिरे=न सोढवन्तः । रामस्योपरि सुरैः कृता शरवृष्टिः रावणशरैः उपरिष्टात् वारिता रावणस्योपरि राक्षसैः कृतं शरवर्षणं रामशरैः अन्तराले एवावरुद्धमित्यर्थः ।
समास:-कृतं च प्रतिकृतं चेति कृतप्रतिकृते ताभ्यां प्रीतास्तैः कृतप्रतिकृतप्रीतैः । सुराश्च असुराश्च तैः सुरासुरैः । परस्पस्य शराणां वाताः, इति परस्परशरव्राताः । पुष्पाणां वृष्टिरिति पुष्पवृष्टिस्तां पुष्पवृष्टिम् ।
हिन्दी-राम के बाण चलाने पर या रावण के प्रहार को रोक देने से प्रसन्न हुए देवताओं ने, राम के ऊपर पुष्पवर्षा की थी उस पुष्पवर्षा को रावण के बाण सहन न करते थे। तथा रावण के अस्त्र चलाने या राम के बाणों को रोक देने से प्रसन्न हुए राक्षसों ने रावण के ऊपर जो पुष्पवर्षा की, उसको राम के बाण ( भी ) सहन न करते थे। अर्थात् परस्पर राम तथा रावण के बाण, उस पुष्पवर्षा को ऊपर ही रोक कर समाप्त कर देते थे। एक दूसरे के ऊपर नहीं पड़ने देते थे। इससे कवि ने बाण चलाने मे दोनों का चातुर्य प्रकट किया है ॥९४॥.