________________
रघुवंशे
कामुकी' इत्यमरः । 'सुप आत्मनः क्यच्' इति क्यच्प्रत्ययः । 'अश्वक्षीर वृषलवणानामात्मप्रीतौ क्यचि' इत्यसुगागमः ततो लटः शत्रादेशः । 'उगितश्च' इति ङीप् । श्लोकार्थस्तु — वृषस्कन्धो रामो वृषयन्तीं तां राक्षसीम् 'हे बाले, अहं कलत्रवान् मे कनीयांसं कनिष्ठं भजस्व' इति शशासाज्ञापितवान् ॥
"
८८
2
अन्वयः - वृषरकन्धः रामः वृषरयन्तीं तां हे बाले ! अहं कलत्रवान् मे कनीयांसं भजस्व इति शशास ।
व्याख्या - वृषरय = वृषभस्य स्कन्धः इव रकन्धः = अंसः यस्य सः वृषस्कन्धः "अंसः स्कन्धे विभागे स्यात्” इति हैमः । सः = रामः वृषं = पुरुषमात्मनः इच्छतीति वृषस्यन्ती 'वृषो धर्मे बलीवर्दे शृंग्यां पुंराशिभेदयोः । श्रेष्ठे' मेदिनी । तां वृषस्यन्तीं = कामुकीं तां = शूर्पणखां हे बाले = हे वासु ! " अथ बाला स्याद्वासूः" इत्यमरः । अहं = = रामः कलत्रं = भार्या अरित अन्य स क्लत्रवान् = सपत्नीकोऽस्मीत्यर्थः । मे मम अतिशयितो युवा अल्पो वा कनीयान् तं कनीयांसं = कनिष्ठभ्रातरं भजख = सेवस्व, प्रार्थय इत्यर्थः इति = एवं शशास =
=
आज्ञापयामास ।
समासः - वृषरय स्कन्ध इव स्कन्धो यस्य स दृषस्कन्धः ।
हिन्दी - साँड के समान ऊँचे कन्धों वाले राम ने, कामातुर ( पति चाहने वाली ) उस शूर्पणखा से कहा कि हे कुमारी ! मैं तो पत्नी वाला हूँ । “अतः " तू मेरे छोटे भाई से जाकर प्रार्थना कर । अर्थात् मेरा विवाह हो चुका है। भाई कुंवारा है । उसके पास जाओ ॥ ३४ ॥
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता ।
साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ ३५ ॥
पूर्वं ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीवृता भूयो रामाश्रया सा राक्षसी उभे वूले भजतीत्युभयवू भाक् नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥
श्रन्वयः- - पूर्वं ज्येष्ठाभिगमनात् तेन अपि अनभिनन्दिता भूयः रामाश्रया सा उभयकुलभाकू नदी व अभूत् ।
व्याख्या- - पूर्व = प्रथमं ज्येष्ठे = श्रेष्ठे भ्रातरि अभिगमनं = विवाहार्थं प्रार्थना इति ज्येष्ठाभिगमनम् तस्मात् ज्येष्ठाभिगमनात् तेन लक्ष्मणेन अपि न अभिनन्दिता अनभिनन्दिता = अस्वीवृता भूयः = पुनः रामः आश्रयः = पतित्वेनावलम्बः यस्याः सा रामाश्रया सा = राक्षसी उभे = द्वे कू.ले = तटे भर्जात = सेवते या सा उभयवूलभाक् नदी = सरित् इव = यथा अभूत् = जाता । सा राक्षसी गमनागमानाभ्यां पर्यायेण तीरद्वयगामिनी नदीसदृशी जाता, इत्यर्थः ।
समासः - ज्येष्ठे अभिगमन मिति ज्येष्ठाभिगमनं तस्मात् ज्येष्ठाभिगमनात् । न अभिनन्दिता, अनभिनन्दिता । रामः आश्रयो यस्याः सा रामाश्रया । उभे कूले भजतीति उभयकूलभाक् ।