________________
द्वादशः सर्गः इत्यर्थः। राववं = रामं निदाघेन =ग्रीष्मकालेन आर्ता = तप्ता, इति निदावार्ता = उष्णेन व्याकुला विरुद्धमासमन्तात् अलति, या सा व्यालो = भुजंगी "व्यालो दुष्टगजे सपें शठे श्वापदसिंहयोः” इति हैमः, चन्दनस्य =मलयजस्य द्रुमः = वृक्षस्तं चन्दनदुमम् इत्र = यथा अभिपेदे =प्राप।
समासः-रावणस्य अवरजा रावणावरजा। मदनेन आतुरा मदनातुरा। निदाघेन आर्ता निदाघार्ता । मलयस्य द्रुमस्तं मलयद्रुमम् ।
हिन्दो-वहाँ पञ्चवटी में, काम से पीड़ित रावण की छोटी बहन शूर्पनखा उसी प्रकार राम के पास जा पहुँची, जैसे कि धूप से पीड़ित घबराई हुई नागिन ( सर्पिणी) चन्दन के वृक्ष के पास पहुँचती है ॥ ३२ ॥
सा सीतासंनिधावेव तं वव्र कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ ३३ ॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्त्रवंशा सती तं रामं वत्रे वृतवती। तथाहि. अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरशो न भवतीत्यकालशो हि ॥
अन्वयः-सा सोतासंनिधौ एव कथितान्वया सती तं व हि अत्यारूढः नारीणां मनोभवः अकालज्ञः । भवति इति शेषः । ___ व्याख्या सा= शूर्पणखा संनिधानं संनिधिः। सीतायाः संनिधिः सामीप्यमिति सीतासंनिधिस्तस्मिन् सीतासंनिधौ। एव कथितः = वर्णितः अन्वयः =स्ववंशः यया सा कथितान्वया सती तं =रामचन्द्रं वने = अवृणोत् पतिरूपेण वृतवतीत्यर्थः । “तथाहि" हि =निश्चयेन अति आरूढः = अतीव प्रवृद्धः नारीणां स्त्रीणां, मनसि भवतीति मनोभवः= कामः कालं =समय जानातीति कालशः न कालश इति अकालशः । भवतीति शेषः। स्त्रीणां कामः अवसरशाता न भवतीत्यर्थः।
समासः-सीतायाः संनिधिः सीतासंनिधिस्तस्मिन् सीतासंनिधौ । कथितः अन्वयो यया सा कथितान्वया । कालस्य ज्ञः कालज्ञः । न कालशः अकालज्ञः।
हिन्दी-अपने कुल का परिचय देकर उस शूर्पणखा ने सीताजी के सामने ही रामचन्द्रजी को ( पतिरूपसे ) वरण कर लिया। अर्थात् शूर्पणखा ने कहा कि आप मेरे पति हो। ठीक ही है क्योंकि-अत्यन्त बढ़ी हुई स्त्रियों को कामवासना समय को नहीं जानती। अर्थात् उचित अनुचित का विचार नहीं करती है ॥ ३३ ॥
कलत्रवानहं बाले कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तों वृषस्कन्धः शशास ताम् ॥ ३४ ॥ वृषः पुमान् । 'वृषः स्याद्वासवे धमें सौरमेये च शुक्रले। पुराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि' इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुको। 'वृषस्यन्ती तु