________________
८१
द्वादशः सर्गः दृक् पुरोभागी' इत्यमरः । दुःश्लिष्टदोषवातमाचरन् = कुर्वन्निव नखैर्विददार = विलिलेख । किलेत्यैतिये ॥
अन्वयः-ऐन्द्रिः द्विजः तस्याः स्तनौ, प्रियोपभोगचिह्नेषु पौरोभाग्यम् इव आचरन् नखैः विददार।
व्याख्या–इन्द्रस्य अपत्यम् ऐन्द्रिः = इन्द्रपुत्रः द्विर्जायते इति द्विजः = पक्षी, काकः तस्याः = वैदेह्याः स्तनौ = कुचौ प्रियस्य = रामचन्द्रस्य उपभोगः = निवेशः, नखक्षतरूप इत्यर्थः इति प्रियोपभोगस्तस्य चिह्नानि =क्षतानि तेषु प्रियोपभोगचिह्नेषु रामेण कृतक्षतेष्वित्यर्थः । पुरः = पूर्व भजते इति पुरोभागी = दोषैकग्राहकः, तस्य कर्म पौरोभाग्यम् = दोषैकदर्शित्वम् इव = यथा आचरन् = कुर्वन् नखैः =कररुहै: विददार = विलिलेख विदारितवानित्यर्थः। किल = इति ऐतिह्ये । “निवेशो भृतिभोगयोः” 'दोषैकदृक् पुरोभागी' इत्यमरः ।
समासः-प्रियस्य उपभोगः प्रियोपभोगः, प्रियोपभोगस्य चिह्नानि तेषु प्रियोपभोगचिह्नषु । पुरोभागस्य कर्म पौरोभाग्यम्, तत् ।
हिन्दी-“इसी समय” इन्द्र का पुत्र जयन्त, काक पक्षी बनकर, सीता के स्तनों को, रामचन्द्र जी के भोगने से बने नखों के घावों में, दोष में ही दृष्टि ( छिद्रान्वेषीपना ) दिखाता हुआ-सा कुरेदने लगा। अर्थात् सीता के स्तनों पर काक चोंच क्या मारने लगा, मानो अपने को छिद्रान्वेषी 'दूसरों के दोष ढूंढ़ने वाला' प्रकट कर रहा है ॥ २२ ॥
तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥ रामया सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम् । 'इषीका काशमुच्यते' इति हलायुधः । आस्थदस्यति स्म । 'असु क्षेपणे' इति धातोर्लुङ् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इत्यङ्प्रत्ययः । 'अस्यतेस्थुक्' इति थुगागमः। स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादास्मानं मुमुचे मुक्तवान् । मुचेः कर्तरि लिट् । 'धेनुं मुमोच' (२।१ ) इतिवत्प्रयोगः ॥ __ अन्वयः-रामावबोधितः रामः तस्मिन् इषीकास्त्रम् आस्थत् । सः एकनेत्रव्ययेन तस्मात् आत्मानम् मुमुचे।
व्याख्या-रामया = सीतया अवबोधितः = विज्ञापितः इति रामावबोधितः, सीतया उत्थापित इत्यर्थः । रामः= रामचन्द्रः तस्मिन् = काकरूपिणि जयन्ते, इषीकया = काशेन निर्मितमस्त्रं = बाणः इति तत् इषीकास्त्रं = काशबाणम् “इषीका काशमुच्यते” इति हलायुधः । इषीका काशतृणमिति हेमचन्द्रः। आस्थत् = प्राक्षिपत्। सः= काकः एकं च तन्नेत्रं = चक्षुरिति एकनेत्रम्। एकनेत्रस्य व्ययः =दानं, नाश इत्यर्थः। इति एकनेत्रव्ययस्तेन एकनेत्रव्ययेन = एकाक्षिप्रदानेन तस्मात् इषीकास्त्रात् आत्मानं = स्वं मुमुचे= मुक्तवान् ।
समासः-इघीकया निर्मितमस्त्रमिति तत् इषीकास्त्रम् । रामया अवबोधितः रामावबोधितः। एकञ्च तन्नेत्रमिति एकनेत्रम् , एकनेत्रस्य व्ययः एकनेत्रव्ययस्तेन एकनेत्रव्ययेन।