________________
रघुवंशे
अन्वयः-सानुजः शान्तः रामः अपि वैदेह्या सह वने वन्येन वर्तयन्, वृद्धक्ष्वाकुव्रतं युवा "एव" चचार।
व्याख्या-अनुजेन = कनिष्ठभ्रात्रा सहितः सानुजः =सलक्ष्मणः शान्तः=शमान्वितः रामः=दाशरथिः विदेहस्य अपत्यं स्त्री तया वैदेह्या = सीतया सह -साकम् वने = अरण्ये भवं वन्यं तेन वन्येन = वनोद्भवेन, कन्दमूलफलादिना वर्तयन् = वृत्ति सम्पादयन् । इक्षुम् आकरोति इक्षुरिति शब्दम् अकति वा इक्ष्वाकुः । वृद्धाः = स्थविराश्च ते इक्ष्वाकवः = वैवस्वतमनुपुत्राः, सूर्यवंशोद्भवा इत्यथः । इति वृद्धक्ष्वाकवस्तेषां व्रतं = तपोवनवासरूपं तत् वृद्धक्ष्वाकुव्रतम् । युवा = तरुणः, तारुण्यस्थ एव चचार = आचरितवान् ।
समासः-अनुजेन सहितः सानुजः। वृद्धाश्च ते इक्ष्वाकवः वृद्धक्ष्वाकवः। वृद्धक्ष्वाकूणां व्रतं तत् वृद्धक्ष्वाकुव्रतम् ।
हिन्दी-"और इधर" छोटे भाई लक्ष्मण तथा सीताजी के साथ प्रसन्न स्वभाव रामने भी, वन में उत्पन्न कन्द-मूल फल से जीवन निर्वाह करते हुए, युवावस्था ( जवानी ) में ही उस व्रत का पालन किया, जिस व्रत को सूर्यवंशी राजा वृद्धावस्था में करते थे ॥ २० ॥
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात् ॥ २१ ॥ स रामः कदाचित् प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन् । किंचिदीषच्छ्रमादिव सोताया अङ्क शिश्ये सुष्वाप ॥
अन्वयः-सः कदाचित् प्रभावस्तम्भितच्छायं वनस्पतिम् आश्रितः सन् किंचित् श्रमात् इक सीतायाः अंके शिश्ये।
व्याख्या-सः रामः कदाचित् = कस्मिंश्चित्समये प्रकृष्टो भावः प्रभावः प्रभावेण = स्वमहिम्ना स्तम्भिता=स्थिरीकृता छाया= अनातपो यस्य स तं प्रभावस्तम्भितच्छायं वनस्य पतिः वनस्पतिस्तं वनस्पतिम् = आम्रादिवृक्षम् आश्रितः समुपविष्टः सन् किंचित् = ईषत् श्रमात् = आयासात् , परिश्रान्तेरित्यर्थः। इव = यथा सीतायाः =जानक्याः अंके = उत्संगे "उत्संग. चिह्नयोरङ्क" इत्यमरः । क्रोडे इत्यर्थः । शिश्ये =अशयिष्ट सुष्वाप इत्यर्थः ।
समासः-प्रकृष्टो भावः प्रभावः । प्रभावेण स्तम्भिता छाया यस्य स तं प्रभावस्तम्भितछायम् । वनस्य पतिः वनस्पतिः, तम्।
हिन्दी-एक समय रामजी, अपने प्रभाव से स्थिर की गई छाया वाले वृक्ष के नीचे बैठकर, मानों कुछ थकावट से सीता जी को गोदी में शिर रखकर सो गये ।। २१ ॥
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः। प्रियोपभोगचिह्नषु पौरोभाग्यमिवाचरन् ॥ २२ ॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीतायाः स्तनौ। प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् । 'दोषेक