________________
द्वादशः सर्गः वन्दामहे सहोद्दण्डदोर्दण्डौ रघुनन्दनौ।
तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ ॥ निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपर्चिरिवोषसि ॥ १ ॥ स्नेहयति प्रीणयन्ति पुरुषमिति स्नेहाः पचाद्यच् स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः अधिकरणाथें घ । विषयाः शब्दादयस्त एव स्नेहाः निविष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। 'निर्वेशो भृतिभोगयोः' इति विश्वः । दशा जीवनावस्था तस्या अन्तं वार्धकमुपेयिवान्स दशरथः । उपसि प्रदीपाचिरिव दीपज्वालेव । आसन्न निर्वाणं मोक्षो यस्य स तथोक्त आसीत् । अचिःपक्षे तु विषयो देश आश्रयः । भाजनमिति यावत् । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । स्नेहस्तैलादिः । 'स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च' इति विश्वः । दशा वर्तिका। 'दशा वर्ताववस्थायाम्' इति विश्वः । निर्वाणं विनाशः। 'निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इति यादवः ॥
अन्वयः--निविष्टविषयस्नेहः दशान्तम् उपेयिवान् सः उषसि प्रदीपाचिंः इव आसन्न. निर्वाणः आसीत् ।
व्याख्या-स्नेहयन्ति = पुरुषं प्रीणयन्तीति स्नेहाः। स्निह्यन्ति पुरुषाः येषु ते स्नेहाः । विसिन्वन्ति = निबध्नन्ति विषयिणं ये ते विषयाः। निविष्टाः =समुपभुक्ताः विषयाः =शब्दादय एव स्नेहाः प्रेमाणः येन स निविष्टविषयस्नेहः । दशति, दश्यते, इति वा दशा = जीवनावस्था तस्याः अन्तं = वार्धकम् उपेयिवान् = प्राप्तः सः= दशरथः “दशा वामवस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियोः" इति रभसः । ओषत्यन्धकारमिति उषः । तस्मिन् उपसि=प्रभाते प्रदीपस्य =दोपस्य अचिः = ज्वाला इव=यथा आसन्नं =समीपं निर्वाणं = मोक्षः यस्य सः आसन्ननिर्वाणः । आसीत् =जातः । अचिंःपक्षे तु-निविष्टः विषयः = स्वाश्रयः, भाजनं स्नेहः = तैलं यया सा दशा. याः=वाः अन्तस्तम् उपेयुषी । आसन्न निर्वाणं = विनाशः यस्याः सा एवंभूता अर्चिरिवेति अचिःशब्दस्य स्त्रीलिंगत्वात् । नपुंसकलिंगमपीति ।
समासः-निर्विष्टाः विषया एव स्नेहा येन स निर्विष्टविषयस्नेहः । दशायाः अन्तस्तं दशान्तम् । आसन्न निर्वाणं यस्य स आसन्ननिर्वाणः । प्रदीपस्य अचिरिति प्रदीपाचिः ।
हिन्दी-संसार के सब विषयसुखों का भोग कर चुकने वाले तथा जीवन की अन्तिम अवस्था को प्राप्त हुये राजा दशरथ वैसे ही हो गये, जैसी कि प्रातः काल में उस दीपक की ज्वाला ( लौ ) हो जाती, जिसका तेल समाप्त हो गया है और जिसकी बत्ती भी समाप्त हो गई है अतः बुझने ही वाली हो ॥ १॥