________________
एकादशः सर्गः
Ce
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीताविवाहवर्णनो नामैकादशः सर्गः। अन्वयः-अथ शर्वकल्पः अवनिपालः क्लृप्तरम्योपकार्ये पथि कतिचित् शर्वरीः गमयित्वा मैथिलीदर्शनीनाम् अङ्गनानां लोचनैः कुवलयितगवाक्षां पुरम् अयोध्याम् अविशत् ।
व्याख्या-अथ = अनन्तरम् ईषदसमाप्तः शर्वः शर्वकल्पः = शिवकल्पः अवनि = पृथिवीं पालयतिरक्षतीति अवनिपाल:=राजा दशरथः उपक्रियते इति उपकार्या। क्लृप्ताः रचिताः रम्याः=मनोहराः नवा उपकार्याः = पटगृहाणि यस्मिन् स तस्मिन् क्लृप्तरम्योपकायें पथि = मागे कतिचित् = कियतीः शृणाति चेष्टाः शर्वरी ।ताः शर्वरी: रात्रीः गमयित्वा = व्यतीत्य मैथिल्याः = सीतायाः दर्शन्यः =अवलोकयित्र्यः तासां मैथिलीदर्शनीनां सीतादर्शनोत्सुकानामित्यर्थः । प्रशस्तानि अङ्गानि यासां ताः तासाम् अङ्गनानां =साकेतसुन्दरीणां लोचनैः=नेत्रैः कोः= पृथिव्याः वलयमिव कुवलयम् । शोभाकरत्वात् । “स्यादुत्पलं कुवलयम्" इत्यमरः । कुवलयानि संजातानि येषां ते कवलयिताः । कुवलयिताः = उत्पलयिताः गवाक्षाः =वातायनानि यस्याः सा तां कुवलयितगवाक्षाम् । गवाम् अक्षीव गवाक्षः । गावः= जलानि, किरणाः वा अक्षन्ति = व्याप्नुवन्ति, एनमनेन वा गवाक्षः । “वातायनं गवाक्षः" इत्यमरः । एवंभूतां पुरम् = नगरम् योद्धम् अशक्या, ताम् अयोध्याम् = साकेतम् = रामनगरीमित्यर्थः अविशत् = विवेश प्रविष्ट इत्यर्थः।
समास:-क्लृप्ताः रम्याः उपकार्याः यस्मिन् तस्मिन् क्लृप्तरम्योपकायें। अवनेः पाल: अवनिपालः । मैथिल्याः दर्शन्यस्तासां मैथिलीदर्शनीनाम् । कुवलयिताः गवाक्षाः यस्याः सा तां कुवलयितगवाक्षाम् ।
हिन्दी-अनन्तर शिव के समान पृथिवी रक्षक राजा दशरथ बनाये गये हैं नये नये राजशाही खेमें जिसमें ऐसे मार्ग में कुछएक रात बिताकर उस अयोध्या नगरी में पहुँच गये, जहाँ सीताजी को देखने में उत्कण्ठित नगर को सुन्दरी स्त्रियों के लोचनों ( आँखें ) से झरोखे (खिड़कियाँ ) कमलों वाले दीख रहे थे अर्थात् झरोखे खिले कमलों से भरे हुए जान पड़ रहे थे ॥ ९३॥
इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनो" व्याख्यायां
रघुवंशे महाकाव्ये सीताविवाहवर्णनो नामैकादशः सर्गः ॥ ११ ॥