________________
रघुवंशे
व्याख्या-उपवीयते स्म, उपवीतं = यज्ञसूत्रं लक्षणं = चिह्न यस्य स तम् उपवीतलक्षणं पितुरयं पित्र्यस्तं पित्र्यं = पितृसंबन्धिनम् अंशं = भागम्, धनुषा = चापेन ऊर्जितः = बलवान् दृढः तं धनुरूजितं मातुः= जनन्या अयं मातृकस्तं मातृकम् च अंशं दधत् = धारयन् यः= परशुरामः सोमेन सहितः ससोमः- सचन्द्रः, धर्माः = निदाघाः उष्णा इत्यर्थः दीधितयः = किरणाः यस्य स धर्मदीधितिः = सूर्यः इव = यथा “वमों निदाघः स्वेदः" इत्यमरः । द्वे जिह्वे = रसने यस्य स द्विजिह्वः । द्विजिह्वेन = सपेण सह वर्तते यः स सद्विजिह्वः = सर्पयुक्तः “द्विजिह्वौ सर्पसूचकौ” “रसज्ञा रसना जिह्वा" इति चामरः । चन्दयति = आह्नादयतीति चन्दनः । चन्दनस्य = मलयजस्य द्रुमः = वृक्षः इव = यथा स्थित इति शेषः ।
समासः-उपवीतं लक्षणं यस्य स तम् उपवीतलक्षणम् । धनुषा ऊर्जितस्तं धनुरूजितम् । सोमेन सहितः ससोमः धर्माः दीधितयो यस्य स धर्मदीधितिः। द्विजिह्वेन सहितः सद्विजिह्वः । चन्दनस्य द्रुम इति चन्द्रनद्रुमः ।
हिन्दी-यज्ञोपवीत ( जनेऊ ) चिह्नवाले पिता ( ब्राह्मण ) के अंश को तथा धनुष से शक्तिशाली मजबूत मातापक्षके अंश को धारण किये हुये परशुराम जी ऐसे लग रहे थे मानो, चन्द्रमा के साथ सूर्य खड़े हो और सॉप से युक्त चन्दन का वृक्ष खड़ा हो ।
विशेष-महर्षि जमदग्नि ब्राह्मण थे, और उनकी धर्मपत्नी रेणुका विदर्भराज की पुत्री क्षत्रिया थी। अतः परशुराम जी में मातापिता दोनों के अंश का महाकवि ने वर्णन किया है। कन्धे पर सुशोभित यज्ञसूत्र पिता के अंश ब्राह्मणत्व को और धनुष धारण से शक्तिशालित्व, एवं दृढ़ता, माता के अंश क्षात्रत्व को प्रकट कर रहा है। इसको कवि ने उपमाद्वय से दर्शाया है ॥ ६४ ॥
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ६५ ॥ रोषपरुष आत्मा बुद्धिर्यस्य सः। 'आत्मा जीवो धृतिर्बुद्धिः' इत्यमरः। तस्य रोपपरुपात्मनः स्थितिभिदोऽपि मर्यादालविनोऽपि पितुः शासने तस्थुषा स्थितेन वेपमानजननीशिरश्छिदा येन प्राग्घृणाऽजीयत । ततोऽनन्तरं मह्यजीयत । मातृहन्तुः क्षत्रवधात्कुतो जुगुप्सेति भावः ॥
अन्वयः-रोषपरुषात्मनः स्थितिभिदः अपि पितुः शासने तस्थुषा वेपमानजननीशिरश्छदा येन प्राक् घृणा अजीयत ततः मही अजीयत । ___ व्याख्या रोषेण = क्रोधेन परुषः = रूक्षः, कठोरः आत्मा = बुद्धिः हृदयमित्यर्थः यस्य स तरय रोषपरुषात्मनः । “आत्मा यत्नो धृतिर्बुद्धिः स्वभावः" इत्यमरः । स्थिति मर्यादां भिनत्ति = लंघयतीति स्थितिभित् तस्य स्थितिभिदः अपि = समुच्चये पितुः = जनकस्य महर्षिजमदग्नेरित्यर्थः शासने = आज्ञायां तस्थुषा= स्थितेन वेपते असौ वेपमाना = कम्पमाना चासौ जननी = माता, इति वेपमानजननी तस्याः शिरः= मस्तकं छिनत्ति = कर्त यतोति वेपमानजननीशिरश्छित् तेन तथोक्तेन येन = परशुरामेण प्राक् = पूर्व घृणा = करुणा, जुगुप्सा च अजीयत= जिता ततः= अनन्तरं मही = पृथिवी अजीयत = जिता, परित्यक्तेत्यर्थः । मातुः मस्तकच्छेदिनः क्षत्रियाणां वधे कुतो जुगुप्सेत्यर्थः ।