________________
एकादशः सर्गः समासः-सः प्रतीपः पवनः आदिः यत्र तत्, तत्प्रतीपपवनादि । कृत्यस्य वित् कृत्यवित् । सु अन्तः यस्य तत् स्वन्तम् । तस्य व्यथा तां तद्व्यथाम् ।
हिन्दी-उस विपरीत ( उलटो ) हवा के चलना आदि अशुभ शकुन होते देखकर कार्य के ज्ञाता राजा दशरथ जी ने शान्ति के लिये अपने गुरु वसिष्ठ जी से पूछा कि ( इससे बचने का उपाय बताइये ) उस गुरुवसिष्ठ ने, इसका परिणाम अच्छा ही होगा यह कर राजा की पीड़ा को कम कर दिया, अर्थात् आप चिन्ता न करें क्योंकि इसका फल अच्छा ही होगा, इस प्रकार राजा को धैर्य धराया ॥ ६२ ॥
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ६३ ॥ सपयु त्थितस्तेजसो राशिाहिनीमुखे सेनाग्रे प्रादुरास किल खलु । यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः । अभूदिति शेषः ॥
अन्वयः-सपदि उत्थितः तेजसः राशिः वाहिनीमुखे प्रादुरास किल, यः सैनिकैः नयनानि प्रमृज्य चिरात् लक्षणीयपुरुषाकृतिः "अभूत्” ।
व्याख्या-संपद्यतेऽस्मिन् सपदि = तत्क्षणे “सद्यः सपदि तत्क्षणे" इत्यमरः । उत्थितः= उत्पन्नः तेजसः = दीप्तेः "तेजः प्रभावे दीप्तौ च" इत्यमरः । राशिः= पुञ्जः, वाहाः= अश्वाः सन्ति यस्यां सा वाहिनी। वाहिन्याः = सेनायाः मुखे =अग्रे प्रादुरास = प्रादुर्बभूव प्रकटो जात इत्यर्थः किल = खलु । यः = तेजःपुञ्जः सेनायां समवेताः सैनिकाः तैः सैनिकैः = सैन्यैः नयनानि = नेत्राणि प्रमृज्य = प्रक्षाल्य चिरात् = चिरेण = बहुकालेनेत्यर्थः । लक्षणीया = दर्शनीया पुरुषस्य = नरस्य आकृतिः = स्वरूपं यस्य स लक्षणीयपुरुषाकृतिः । अभूदिति शेषः ।
समासः-वाहिन्याः मुखमिति वाहिनीमुखं तस्मिन् वाहिनीमुखे। पुरुषरय आकृतिरिति पुरुषाकृतिः । लक्षणीया पुरुषाकृतिः यस्य स लक्षणीयपुरुषाकृतिः ।
हिन्दी-"और" उसी समय एक तेजपुञ्ज ( तेज समूह ढेर ) सेना के सामने दिखाई पड़ा । ( इससे उनकी आँखे चौन्धियाँ गई ) जो तेज का समूह, सैनिकों ने आँखे मलकर या धोकर देखा तब बहुत देर बाद पुरुष के रूप में देखा गया ॥ ६३ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव धर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ६४ ॥ उपवीतं लक्षणं चिह्न यस्य तम् । पितुरयं पित्र्यः । 'वाय्वतुपित्रुषसो यत्' इति यत्प्रत्ययः । तमंशम् । धनुषोर्जितम् धनुरूजितं । मातुरयं मातृकः । 'ऋतष्ठ' इति ठन्प्रत्ययः । तमंशं च दधद्यो भार्गवः । ससोमश्चन्द्रयुक्तो धर्मदीधितिः सूर्य इव । सद्विजिह्वः ससर्पश्चन्दनद्रुम इव स्थितः ॥
अन्वयः-उपबीतलक्षणं पित्र्यम् अंशं धनुरूर्जितं मातृकं च अंशं दधत् यः ससोमः धर्मदीधितिः इव, सद्विजिह्वः चन्दनद्रुमः इव स्थितः।