________________
एकादशः सर्गः व्याख्या—सः राजा दशरथः बलैः =सैन्यैः उपवनानाम् = आरामाणां पादपाः = वृक्षाः, इति उपवनपादपाः। “आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः। पीडिताः = दलिताः भग्ना इत्यर्थः। उपवनपादपाः यस्याः सा तां पीडितोपवनपादपां मिथिलां = मिथिनामराजेन निर्मितां जनकपुरीमित्यर्थः । आससाद = प्राप, सा पुरी= जनकनगरी स्त्री = युवतिः आयतम् = अतिप्रसक्तम् कान्तस्य = प्रियस्य परिभोगं = सम्भोगम् इव = यथा प्रीत्या = प्रेम्णा रोधः-प्रतिरोधः तं प्रीतिरोधं पीडामित्यर्थः असहिष्ट = सहनं कृतवती।
समास-पीडिताः उपवनानां पादपाः यस्याः सा तां पीडितोपनपादपाम् । प्रीत्या रोधस्तं प्रोतिरोधम् । कान्तस्य परिभोगस्तं कान्तपरिभोगम् ।
हिन्दी-वे राजा दशरथ, अपनी सेना से मिथिला नगरी के बगीचों के वृक्षों को रौंदते और चारों ओर से नगरी को घेरते हुये जनकपुरी में पहुँच गये। मिथिला नगरी ने इस प्रेम के घर को उसी प्रकार सहन कर लिया, जिस प्रकार युवती स्त्री अपने प्रियतम के कठोर सम्भोग को सहन कर लेती है ॥ ५२ ॥
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमो ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ५३ ॥ समये स्थितावाचारनिष्ठौ । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । वरुणवासवावुपमापमानं ययोस्तौ तथोक्तौ। तावुभौ भूपती जनकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ । तनोतेलिट् ॥
अन्वयः-समये स्थितौ वरुणवासवोपमौ तौ उभौ भूपती स्त्रप्रभावसदृशीं कन्यकातनयकौतुकक्रियां वितेनतुः।
व्याख्या–समये = आचारे स्थितौ = वर्तमानौ, आचारनिष्ठी, इति भावः । वियते, वृणोति वा वरुणः= प्रचेताः । वसवः== देवाः, वसूनि = धनानि वा सन्त्यस्य स वासवः । वसोरपत्यं वा वासवः = इन्द्रः । वरुणश्च वासवश्च वरुणवासवौ, तो उपमा = उपमानं ययोस्तौ वरुणवासवोपमौ तौ = जनकदशरथौ उभौ= द्वौ भूपती = पार्थिवौ समेत्य = मिलित्वा, संबन्धिनौ भूत्वेत्यर्थः । स्वस्य = आत्मनः प्रभावः = महिमा तस्य सदृशी = अनुरूपा तां स्वप्रभावसदृशीं कन्यकानां= सीतादीनां तनणनां = पुत्राणां रामादीनां कौतुकस्य = विवाहस्य क्रिया तां कन्यकातनयकौतुकक्रियां = विवाहोत्सवमित्यर्थः । वितेनतुः= विस्तृतवन्तौ। स्वस्वमहिमानुसारं विस्तारपूर्वकं विवाहोत्सवं कृतवन्तावित्यर्थः। “कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि। पारम्पर्यागतख्यातमंगलोद्वाहसूत्रयोरिरौ" ति कोषः ।।
समासः-वरुणश्च वासवश्चेति वरुणवासवौ, तौ उपमा ययोस्तौ वरुणवासवोपमौ। स्वस्य प्रभावः स्वप्रभावः। स्वप्रभावस्य सदृशी तां स्वप्रभावसदृशीम् । कन्यकाश्च तनयाश्चेति कन्यकातनयास्तेषां कौतुकं तस्य क्रिया तां कन्यकातनयकौतुकक्रियाम् ।