________________
३८
रघुवंशे होते ही पूर्ण कर देता है। संकल्पित मनोरथ को तुरन्त जो पूर्ण करे वह कल्पवृक्ष कहाता है ॥ ५० ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ५१ ॥ बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् । 'वश आयत्ततायां च' इति विश्वः । कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवाञ्छ्रतवान् । शृणोतेः कसुः । सैन्यरेणुमुषितार्कदीधितिः सन्नुच्चचाल प्रतस्थे ॥
अन्वयः-बलभित्सखः वशी कल्पितपुरस्क्रियाविधेः अग्रजन्मनः वचनं शुश्रुवान् सैन्यरेणुमुषितार्कदीधितिः सन् उच्चचाल।
व्याख्या-बलम् = असुरं भिनत्ति, इति बलभित् = इन्द्रः, तस्य सखा = मित्रमिति वलभित्सखः वशः = अस्यारतीति वशी=स्वतंत्रतावान् जितेन्द्रियः दशरथः “वश आयत्ततायां चे" ति विश्वः । कल्पितः = विहितः पुरस्क्रियायाः= पूजायाः विधिः = विधानं यस्य स तस्य कल्पितपुरस्क्रियाविधेः । अग्रे जन्म यस्य सः अग्रजन्मा तरय अग्नजन्मनः = ब्राह्मणरय, जनकपुरोहितरय शतानन्दस्य वचनं = जनकसन्देशरूपं शुश्रुवान् = आकर्णितवान् , सैन्यानां = सैनिकानां रेणवः = धूलयः, इति—सैन्यरेणवः सेनाप्रचलनेनोत्थिता इत्यर्थः तैः मुषिताः = आच्छादिताः अर्कस्य = सूर्यस्य दीधितयः = कराः येन सः सैन्यरेणुमुपिताकदीधितिः सन् उच्चचाल = प्रतस्थे रामविवाहार्थं मिथिलां प्रतस्थे इत्यर्थः ।
समासः-बलभिदः सखा, इति बलभित्सखः। अग्रे जन्म यस्य स तस्य अग्रजन्मनः । पुरस्क्रियायाः विधिरिति पुरस्क्रियाविधिः। कल्पितः पुरस्क्रियाविधिः यस्य स तस्य कल्पितपुरस्क्रियाविधेः। सैन्यानां रेणवस्तैः मुषिताः अर्कस्य दीधितयः येन स सैन्यरेणुमुपितार्कदीधितिः।
हिन्दी-इन्द्र के मित्र, जितेन्द्रिय, राजा दशरथ ने जनकजी के पुरोहित शतानन्द नाम के ब्राह्मण का पूजा-सत्कार किया, और उनका बचन ( राम के विवाह के लिये जनकजी का सन्देश ) सुनकर अपनी सेना के चलने से उठी धूल से सूर्य की किरणों को ढकते ( छिपाते ) हुये मिथिला को चल पड़े ॥ ५१ ॥
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ५२ ॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन्परिधीकुर्वन् आससाद । सा पुरी। स्त्री युवतिरायतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव । प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती । द्वेषरोधं तु न सहत इति भावः ॥
अन्वयः–सः बलैः पीडितोपवनपादपां मिथिलां वेष्टयन् आससाद, सा पुरी स्त्री आयतं कान्तपरिभोगम् इव प्रीतिरोधम् असहिष्ट ।